SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५४. काव्यमाला। एवमभेदप्राधान्ये आरोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भालक्षयतितत्फलभूतं निमित्तान्तरमध्यवसितम् । एतदुपसंहरन्नन्यदवतारयति-एवमित्यादि । आरोपगर्भानिति । अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः । तत्र तावदुत्प्रेक्षां लक्षयति-अध्यवसाय इत्यादि । अध्यवसाय इति न पुनः संदेहः । इह हि निश्चयानिश्चयरूपत्वेन प्रत्ययानां द्वैविध्यम् । निश्चयश्चार्थाव्यभिचारी सम्यक्, अन्यथा त्वसम्यगिति भेदो न प्राह्यः । प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् । तस्य च प्रामाण्यविचारे उपयोगात् । अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः । अतश्चानिश्चितं च संदिग्धमेवेति न वाच्यम् । तर्कात्मनः संभाव. नाप्रत्ययस्याप्यनिश्चयात्मकत्वे संदिग्धत्वाभावात् । उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कप्रतीतिमूलेति नास्याः संदेहमूलत्वम् । तत्य भिन्नलक्षणत्वात् । अथानवधारणज्ञानसंशय इत्यनवधारणज्ञानत्वाविशेषात्संशयानार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नैतत् । अनवधारणज्ञानत्वाविशेषेऽपि संशयतर्कयोभिन्नरूपत्वात् । तथाहि स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः । पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः। पुरुष एवायमिति पक्षान्तरसंस्पर्शेनैकतरपक्षनिर्णयो निश्चयः इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम् । बाढमस्त्येव प्रत्ययानां त्रैविध्यम् । किं त्वनवधारणज्ञानत्वाविशेषात्तत्सामान्यतर्कोऽपि संशयप्रकार इति चेत् , नैतत् । एवं ह्यसम्यग्ज्ञानत्वाविशेषाशमोऽपि संशयप्रकारः स्यात् । अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयोर्विशेष इति चेत्, इह पुनर्नास्त्यत्र किं प्रमाणम् । संशयो ह्यतिशयतोभयांशावलम्बित्वेनोदेति तर्कः पुनरंशान्तरबाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशान्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः । देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः । साधकप्रमाणाभावेऽप्यस्योपपत्तेः । नहि प्रतिपक्षबाधादेव निश्चयो भवति । साधकबाधकप्रमाणसद्भावेन तदुत्पादात् । तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः संदेहः । एकतरपक्षावलम्बी तु तर्क इति । अथ कोऽस्य फलस्योपायविशेष इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत्, नैतत् । किमर्थेनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् । बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरस्ति भेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम् । 'तेन संदेहनिश्चयान्तरालवर्ती तद्विलक्षणः संभावनाप्रत्ययस्त्रिशङ्करिव लम्बमानोऽवश्याभ्यु १. 'तत्तत्' क. २. 'संदेह इति' ख. ३. 'भेदेन' क. ४. 'अनवधारणताविशेषात्' ख. ५. 'विशेषात्संशयप्रकारस्तर्क इति' ख. ६. 'नास्तीति किं' क. ७. 'स्मरणं प्रथम,मवतरन्ति' ख. ८. 'विशेषास्मरण' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy