________________
अलंकार सर्वस्वम् ।
५३
स्यात् । इह पुनः शर्वलष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एव प्राधान्यं विवक्षितमिति न परिणामो नापि रूपकम् । व्याजार्थपर्यवसायिवपुः शब्दबलादारोपविषयापह्नुतावारोप्यमाणस्य प्रतीतेः । आरोपविषयानपहवे हि रूपकमिति पूर्वमेवोक्तम् । अथात्रापि भिन्नयोः सामानाधिकरण्यायोगादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्, नैतत् । अत्र हि मुखादौ चन्द्रादेर्वृत्त्यभावो बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांलक्षयति न तु मुखा देर्विषयस्य निषेधः प्रतीयते । मुखशब्दादेः स्वार्थ एव प्रवृत्तेः । पर्यवसाने ह्यत्र मुखादि चन्द्रादिगुणविशिष्टं प्रतीयते । न तु मुखादेर्बाधः । न मुखमित्येवमादेः प्रत्यवमर्शाभावात् । नापि निदर्शना । संबन्धविघटनाद्यभावात् । आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते । यथा - 'मद्वाहोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति । नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदे ॥' अत्र कुसुमैरिति तृतीययापवनिबन्धनम् । आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा । सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयीगतिः । तत्रानुगामिता यथा - ' तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुंतुददन्तपदत्रणविवरोपदर्शितमिदं हि विभाति नभः ॥' अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम् । शुद्धसामान्यरूपत्वं यथा'अयं सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः । न प्रापितोऽयं सुमनः प्रवर्हः कश्मीरदेशोद्भवताभिमानम् ॥' अत्रोपनयनप्रापणयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा— 'न ज्योत्स्नाभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकरो न चेदममृत ज्योतिष्मतो मण्डलम् । क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरः ॥' अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टम् । संबन्धान्तराद्यथा - 'हेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु प्रेङ्खाकेलि कमपि भजतां चूतशाखालतासु । वाचालवं नयदुदभवत्कानने कोकिलानां मौनित्वं तत्पथिकहरिणीलोचनानां ववल्ग ॥' अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रीमौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं सप्रपञ्चं दर्शिता अध्यवसायगर्भा पुनर्दर्श्यते यथा - 'न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः । यदेवं बालेन्दोदिशि विदिशि वन्यत्वमुदितं स्फुटत्वे तत्कान्तामुखकमलदास्यादुपनतम् ॥' अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितम् । यथा वा — ' कलाभिस्तत्यर्थे सुरपितृनृणां पञ्चदशभि: सुधासूतिर्देवः प्रतिदिनमुदेतीत्यसदिदम् । परिभ्राम्यत्येष प्रतिफलनमासाद्य भवतीकपोलान्तर्युक्तत्या त्वदधरसुधासंग्रहपरः ॥' अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य
१. 'सामानाधिकरणयोः' ख. २. 'प्रतीतेः' ख. ३. 'मुखादिभिः' ख. ४. ' प्रत्ययस्याभावार्थे नापि निदर्शना' क. ५. 'प्रवाह: ' क. ६. 'सारम्' क. ७. 'तदेवं' ख.