SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यमाला | सार्धं त्वद्विपुभिस्त्वदीययशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भः कणैः ॥' अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापवोत्प्रेक्षा इत्यपि स्थाप यिष्यते ' अहं त्विन्दुं मन्ये' इति तु वाक्यभेदें मन्यशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपहवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववचित्रतावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वपहवे यथा— 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी - न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥' वस्त्वन्तररूपताभिधायि क्वचित्पुनरसत्यत्वं वपुः शब्दादिनिबन्धनं यथा - 'अमुष्मल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ||' इति । नोत्प्रेक्षेति । साध्यवसायाद्युत्प्रेक्षासामग्र्यभावात् । वक्ष्यत इत्युत्प्रेक्षायाम् । तथा चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयतीति । अतश्च 'अवाप्तः प्रागल्भ्यं -' इत्यादावपहुत्युदाहरणत्वमभिदधतः समानेऽपि न्याये 'नो मां प्रति तथा' इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादेतिशयोक्तिरेवेति मन्यन्ते । तेषां पूर्वापरविचारकुशलानां किमभिदध्मः । एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रन्थविस्तरभयादस्मद्दर्शनदत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितम् । एतस्मिन्निति छलादिशब्दप्रतिपाद्ये । संभवमात्रं पुनर्दर्शयितुमेतदुदाहृतम् । वस्त्वन्तररूपताभिधायीति । वपुः शब्दस्य शरीरार्थाभिधायित्वात् । अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम् । तत्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं १. 'पक्षतया ' ख. २. 'अतिशयोक्ति' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy