________________
६७
अलंकारसर्वस्वम् । त्यत्वं च (........) पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनम. भिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगुणक्रियाभिसंबन्धादप्रकृतेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिशब्दैरुच्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्धा । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति ते न गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः। तेषु च हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षायाः । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युदेशत ऎतावन्तो भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैन्यूनोऽयं प्रकारः । इवाद्यनुपातायाः प्राधान्याभावात् । अध्यवसितप्राधान्यमिति । विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः । साध्यत्वसिद्धत्वयोश्च समनन्तरमेव स्वरूपमुपपादितमितीह न पुनरा. यस्तम् । तत्रेति द्वयनिर्धारणे । अध्यवसाय इत्यादिशब्दैरुच्यत इति संबन्धः । एतदेवोपसंहरति-तदेवमित्यादि । यदाहुः-'विषयित्वेन संभावनमुत्प्रेक्षा' इति । प्रतीयमानायामिति । इवाद्यप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्गयायामलंकारप्रभेदानां प्रतिपिपादयिषितत्वाव्यङ्गयभेदाभिधानस्याप्रस्तुतत्वात् । एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः । सा चेति । न वैचित्र्यमिति । तस्य निगीर्यमाणत्वेनाप्राधान्यात् । प्रत्येकमिति जात्यादीनाम् । निमित्तस्येति धर्मस्य । तद्बशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः । हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव वि. श्रान्तिधामतया पश्चादुद्दिष्टम् । जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरंतनानुरोधात्कृतम् । अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् । अस्माभिश्च नोदाहरिष्यते । ए. षेति समनन्तरोक्ता । तत्रापीति सत्यामपि समनन्तरोद्दिष्टायां भेदगणनायाम् । प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति दर्शितम् । अत एवालंकारानुसारिण्यां ग्र. न्थकृतानयोरपि संभवो दर्शितः । तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी । अन्यथा वेतद्भेदषोडशकस्याभावादशीतिर्भेदाः । अस्याश्च वक्ष्यमाणनीत्या हैतुफलयोनिमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति । एतावन्त इति षण्ण
१. 'अध्यवसायत्वेन' ख. २. 'भेदयोरपि' ख. ३. 'एव तावन्तो' क-ख.