________________
अलंकारसर्वस्वम् ।
तंत्र।
.. अध्यवसाये व्यापारमाधान्ये उत्प्रेक्षा । पगन्तव्यः । एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम् । तस्य हि विषयनिगरणे विषयिनिश्चयश्च स्वरूपम् । न चात्रैकमपि संभवति । वि. षयोपादानान्निश्चयाभावाच्चेति । अत्रोच्यते-इह द्विधास्त्यध्यवसायः-स्वारसिक उत्पादितश्च । तत्र स्वारसिके विषयानवगम एव निमित्तसामर्थ्यात्स्वरसत एव विषयप्रतीतेरुल्लासात् । नह्यवगतशुक्तिकास्वरूपस्य प्रमातु: कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यापि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविकल्पनाद्विषये प्रतिपत्तिमुत्पादयेत् । जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत् । तत्राद्यो भ्रान्तिमदादिविषयः । तत्र हि प्रमात्रन्तरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्रानूद्यते न तूत्पाद्यते । यदाहुः-प्रमात्रन्तरधीर्धान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमान्' इति । स्वारसिकत्वं पुनरत्र कविप्रतिभानिर्वर्तितमेवेष्टम् । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् । इतरस्तूत्प्रेक्षाविषयः । स च द्विविध:-सिद्धः साध्यश्च । सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यम् । साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यम् । अत एवाह-व्यापारप्राधान्य इति । अत एव चात्र क्वचिद्विषयानुपादानम् । वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपक्रान्तत्वात् । क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम् । इवायुपादानान्निगीर्यमाणतायाः प्राधान्यात्संभावनाप्रत्ययस्यैवोद्रेकात् । अत एव चात्र विषयस्य निगीर्यमाणत्वादारोपगत्वं न वाच्यम् । तत्र विषयस्य विषयितया प्रतीतिः । इह पुनर्विषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः । ननु विषयनिगरणमध्यवसायस्य लक्षणम् इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्, नैतत् । 'विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका' इत्याद्युक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम् । तच्च विषयस्य निगरणेन निगीर्यमाणत्वेन वा भवतीति न कश्चिद्विशेषः । निगीर्यमाणमपि पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः । एवं सिद्धेऽध्यवसायेऽध्यवसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम् । एतच्च ग्रन्थकृदेव विभज्याने वक्ष्यतीति तत एवावधार्यम् । यदेव चाध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम् । संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदायेन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम् । तस्यापि विषयशिथिलीकारेण विषयिदान चोत्पत्तेः । अत एव विषयिणोऽपि शाब्देन वृत्तेन सत्यत्वम् । विषयदायेनैव साध्यवसायस्वरूपप्रादुर्भावात् । यदुक्तं भवद्भिरेव 'संभावनायां च संभाव्यमानस्य
१. 'अत्र' ख. २. 'तत्राध्यवसाये' ख.
१. 'द्विविधस्त्वध्यव' क. २. 'विकल्पबलात्' ख. ३. 'मूलत्वम्' क. ४. 'साध्याध्यवसाय' क.