SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८ काव्यमाला। संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु । अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्।तद्धेतुकत्वाचास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव । यद्येवम् , अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रासु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा तस्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वा 'णाराअणो त्ति परिणअवआहिँ सिरिवल्लहो त्ति तरुणीहिं । बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥' मुक्तं तदयुक्तम् । अवयवावयविभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् । न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् । किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तवादितपोवनादिगुणमुखेन निजनिजंवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीगाभासः । अथापि यद्यस्त्यवयवावयविभावविवक्षा तल्लक्षणामात्रं न रूपकम् । तस्य लक्षणापरमार्थत्वेऽपि विषयिणा विषयस्य रूपवतः करणादलं. कारत्वम् । अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्या. रोपेणारोपविषयस्य नातिशयः कश्चित् । वस्तुत एव तद्रूपतायाः संभवात् । अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः । न केवलमन्यालंकारविविक्तोऽयमेवास्य विषयो यावद्यत्रापि रूपकालंकारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यत्रेत्यादि । इयमपि भङ्गिरिति एकस्यानेकधाग्रहणरूपा । एतावतेति रूपकप्रयोगमात्रेण । ततश्चेति रूपकोल्लेखयोः संकरात् । ननु यंत्र रूपकयोगो नास्ति तदलंकारान्तरयोगः संभवतीत्याह-एवंहीत्यादि । अतपस्येति । अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् । अतस्मिस्तद्रहो भ्रम इत्येतदेव हि भ्रमसतत्त्वम् । अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुकत्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात् । यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि । यद्येवमिति । भ्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः । एष इति अतिशयोक्तिसद्भावः । तस्येति ग्रहीतभेदाख्यस्य विभावस्य । विच्छित्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतु: । तदेवं तत्तच्छङ्कानिरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति—णाराअणो त्तीति । अत्र च नारायणत्वा १. 'कर्तुम्' क. २. 'नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेन एवमेव सत्यापितः ॥' इति च्छाया. १. 'यद्यत्र रूपकप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह' क. २. 'विषयभावगम्यविच्छित्यन्तरत्वमेव क. ३. 'तत्तदीयशङ्का' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy