SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। __ विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविधःसाध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः । धर्मो गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । स दाव्दपरस्य च शैथिल्यात्' इति । इह संभाव्यमानस्य विषयिणो दाादत्र संशयाद्वैलक्षण्यम् । तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शी लक्षणम् । संभावनाविषयस्य च शैथिल्यानिश्चयादपि भेदः । निश्चये हि बाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात् । अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः । यत्तु साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः' इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणावगन्तव्यम् । तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् । तस्मात् 'इवादौ निश्चयाभावाद्विषयस्य परिग्रहात् । क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् ॥' इत्याद्युक्तमयुक्तमेवेत्यलं बहुना । एतदेव व्याचष्टे-विषयेत्यादिना । अभेदप्रतिपत्तिरिति विषयान्तःकरणात् । संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि । विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम् । इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याहअसत्यतया प्रतीतिरिति । अत्रैव निमित्तमाह-असत्यत्वं चेत्यादि । विषय उपनिबन्ध इति । तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेन सप्रयोजनत्वमेवोपोद्वलितम् । धर्म इति विषयिगतः । स एव चोत्प्रेक्षणे निमित्तम् । तस्येति धर्मस्य । संभावनाश्रयस्यति विषयिणः । तत्रेति संभावनाश्रये विषये । इतरस्येति असंभवाश्रयस्य विषयस्य । यस्येति विषयिणः । अतश्चेति । अध्यवसायस्य साध्यमानत्वात् । असत्यस्यापीति । वस्तुतो विषयिणस्तत्रासंभवात् । सत्यताप्रतीतिरिति । निश्चयस्वभावत्वादतिशयोक्तेः । असत्यत्वनिमित्तस्येति धर्मसंचारादेः । अतश्चेति धर्मसंचारानिगीर्यमाण १. 'विषयिणि सत्यतया' ख. २. 'विषयगतस्य' क. ३. 'प्रतीतः' क. ४. 'तत्र पर' ख. ५. 'अपरमार्थ' ख. ६. 'यस्य सत्यत्वं' ख. ७. 'सत्यतया' ख. १. 'असंभाव्यमानस्य' ख. २. 'विषयस्येति विषयिणः' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy