SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । 'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥' सादृश्यं विना तु स्मृति यमलंकारः । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः) ॥' अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलंकारः । यदुक्तम्-'यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा । स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी ॥' इति । तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे । तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् । द्वितीयस्तु यथा-'तस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदली. वेष्टनप्रेक्षणीयः । मदनहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥' अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनम् । एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्य. वसेयम् । ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्कयाह-अविनाभावेत्यादि । अविनाभावस्तादात्म्यानित्यसाहचर्याद्वा । अनुभूयमानस्मर्यमाणयोश्च तदभावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगामितया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति । तत्र शुद्धसामान्यरूपत्वेन यथा-'सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजस्रं यमुना. प्रवाहसलीलराधास्मरणं मुरारेः ॥' अत्र सोल्लाससलीलत्वयोरेकत्वम् । बिम्बप्रतिबिम्बमा. वेनापि यथा-'पूर्णेन्दुना मेघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः । विवाहहोमानलधूमलेखामिलत्कपोलां भवती स्मरामि ॥' अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्बभावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना । सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वम् । स्मर्तव्यदशाभावित्व इति । स्मर्तव्यदशाभावित्वं वाच्यं सदनादृत्येत्यर्थः । अत एव वाच्यस्यावचनम् । स्मर्तृदशाभावित्वमित्यवाच्यस्य वचनम् । यद्यपि स्मर्तदशायामतीतत्वात्कर्टविशेषणानां मृगयानिवृत्तत्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुविशेषणभा. वेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् । प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलंकारस्येत्यादिना । तुशब्द १. 'स्मृतिगामिनी' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy