SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । तत्रापि विभावाद्यागूरितत्वेन खशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं' इत्यादि । 'यैदृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान्पातयन् । तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल__ज्वालालीभरभास्वरे सररिपावस्तं गतं कौतुकम् ॥' इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेदप्राधान्येन कथ्यन्ते अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् । श्वार्थे । सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम् । तत्रापीति । एवं स्थितेऽपि सती. त्यर्थः । विभावाद्यागरितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिविषय इति संबन्धः । तत्र विभावाद्यागरितत्वे स्मृतिर्यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । स्वशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम् 'अत्रानुगोदं-' इत्यादौ । अत्र च यथा प्रेयोलंकारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् । क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-'यैदृष्टोऽसि-' इत्यादि । वस्त्वत्र जयापीडदर्शनम् । वस्त्वन्तरं तु भगवल्लक्षणम् । अत्र त्वदर्शनमभिलषतां जनानां न त्वदर्शनावाप्तिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्त्वन्तरकरणम् । विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालंकार इत्याशङ्कयाह-करणस्येत्यादि । एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि । एतदिति स्मरणम् । मतान्तर इत्यौद्भटे । यदुक्तम्-'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हैतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥' इति । इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलंकारतयैतदुक्तम् । एतदुपसंहरनन्यदवतारयतितदेत इत्यादि । एत इत्युपमाद्याश्चत्वारोऽलंकाराः । संप्रतीति । भेदाभेदतुल्यत्वाश्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति-अभेदप्राधान्य इत्यादि । वस्तुत इति । न तु प्रतीतित: । सद्भाव १. 'यथा' क-पुस्तके नास्ति.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy