________________
काव्यमाला |
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा । आद्ये यथा
'खमिव जलं जलमिव खं हंसश्चन्द्र इव इंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥'
द्वितीये यथा
३२
'सच्छायाम्भोजवदना सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥'
सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ वैस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा
तलम् ॥' अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः । आर्थो यथा - 'भवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती । इतरेतरसादृश्यसुभगामेति वन्द्यताम् ॥' अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्च गङ्गावद्वन्येत्यस्त्येवार्थो वाक्यभेदः । अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानम् । यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नाय - मलंकारः । यथा - 'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' न ह्यत्र विधुसवित्रादीनामुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति । साधारण्य इति । एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनोक्तम् । तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनिदेशपक्षे तु वास्तवमेव साधारण्यम् । यदनुसारं खमिव जलमित्याद्युदाहृतम् । धर्मस्यानुगामित्वे तु यथा— 'कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ॥' अत्र विभातीति सकृन्निर्दिष्टम् । वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा । तत्र बिम्बप्रतिबिम्बभाव प्रकृतैवोदाहृतः । तत्र ह्यम्भोजदनयोबिम्बप्रतिबिम्बभावः । शु
सामान्यरूपत्वं यथा - 'उद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलित भ्रमरं च पद्मम् ॥' (अत्र ) प्रस्पन्दमा - प्रचलितत्वेन शुद्धसामान्यरूपत्वम् । तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः । उन्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम् । सदृशेति । वस्त्वन्तरमिति स्मर्यमाणम् । सदृशमेवेति । सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमाणेनानुभूयमानस्य,
१. " यदभिहितं बौद्धैः - 'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति । वस्त्वन्तरं " ख.