SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । अत्र हाराङ्गरागयोनिझरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ । अतश्चाननशतपत्रापेक्षया इति न व्याख्येयम् । तयोरुपमानोपमेयभाववाचोयुक्तरेव युक्तत्वात् । एवं च सति कंधरावृन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिबिम्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः 'पाण्ड्योऽयम्' इत्याद्युदाहृतम् । हाराङ्गरागयोरिति । स्वरूपयोरिति शेषः । न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्य वाक्यार्थगतामुपमामाशङ्कय गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि साधारणधर्मनिबन्धनमुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तम् । अनिर्देशपक्षे चास्य न वैचित्र्यं किंचिदिति न तदाश्रयं भेदजातमुक्तम् । अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना । वाक्यार्थोपमागन्धोऽप्यत्र नास्ति । स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशैरेव धमिभिः साम्ये भवति । यथा-'जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोऽभवत् । रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥' अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपात्तानि । एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव । बिम्बप्रतिबिम्बभावः पुनर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति । यथात्रैव । अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम् । इन्दुमती प्रति तस्य विशिष्टालम्बनविभावत्वेन विव. क्षितत्वात् । अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः । एवं पाण्ड्यस्यादिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा । तावन्मात्रेणैव सादृश्यपर्यवसानात् । तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वादृष्टान्तन्यायस्यैतत्सूदाहरणमेव । ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत्, उच्यते-अ. स्यास्तावद्धर्मस्य साधारण्यं जीवितम् । तच्च धर्मस्यैकत्वे भवति । न च वस्तुतोऽत्र धर्मस्यैकत्वम् । नहि य एव मुखगतो लावण्यादिधर्मः स एव चन्द्रादौ । तस्यान्वयासंभवात् । अपि तु तजातीयोऽत्रान्योऽस्ति धर्मः । एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् । अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यम् । तत्राप्यन्यदित्यनवस्था स्यात् । ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतनिमित्तमेकत्वमाश्रयणीयम् । अन्यथा युपमाया उत्थानमेव न स्यात् । एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवक्षकत्वं ग्राह्यम् । अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपम्यसमुत्थाने निमित्तत्वमेव न स्यात् । न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम् । अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः । लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं सं. कान्तमित्यभेदेनाभिमन्यते । अन्यथा हि प्रतिबिम्बदर्शने कृशोऽहं स्थूलोऽहमित्यायभिमानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् । प्राच्यैरपि-'स मुनिर्लाञ्छितो मौझ्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान् ॥' १. 'पर्यवसानम्' क. २. 'विवक्षेत्येकत्वं' ख. ३. 'इति' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy