________________
अलंकार सर्वस्वम् ।
यैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्गिर्देश: । पृथङ्गिर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणम् –
'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥' 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ||'
२७
अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
'पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो नवचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥'
सन्नमाकाशमाविष्कृततारतारम् ॥' अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छाया पथयोईव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगतत्वेनोपनिबद्धम् । एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं तदयुक्तमेवेत्यलं बहुना । एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् । एतच्च न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम् । ऐक्यरूप्येणेति । सकृत् । यद्वक्ष्यति— ‘तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देश उपमा' इति । पृथङ्गिर्देश इति । असकृदित्यर्थः । यद्वक्ष्यति - 'वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव' इति । साधारणधर्म - स्येत्यत्रापि संबन्धनीयम् । वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह - पृथङ्गिर्देश इत्यादि । संबन्धिभेदमात्रमिति । न पुनः स्वरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्यति — असकृन्नि - देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा इति । एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलंकाराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्रतत्रोदाहरिष्यामः । क्रमेणेति यथोद्देशम् । संबन्धिभेदादिति । संबन्धिनो: कंधरावृन्तयोर्भेदात् । न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः । ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्धर्मी कंधरावृन्तरूपः पुनः किंरूपतयेत्याशङ्कयाह – धर्म्यभिप्रायेणेत्यादि । एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः । कंधरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्रापेक्षया धर्मत्वमेव युक्तम् । आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् । अत एवास्यावास्तवत्वं पूर्वमुक्तम् । १. 'तारतम्यम्' क. २. 'यदन्यैराश्रित्योक्तं' क.