SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २६ काव्यमाला | चित्सामान्यं कश्चिच्च विशेषः स विषयः सदृशतायाः' इति । उपमैवानेकप्रकारवैचित्र्येणानेकालंकारबीजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णा लुप्तात्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम् । तंत्रापि साधारणधर्मस्य क्वचिदनुगामितसमग्र एवालंकारवर्गः संगृहीतः । तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः । रूपकवदित्यनेन परिणामोत्प्रेक्षादयः । किं तु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्यति - 'आरोपादभेदेऽध्यवसायः प्रकृष्यते ' इति । अतश्चाध्यवसायगर्भेध्वलंकारेषु शुद्धाभेदरूपञ्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः । तत्राप्यभेदप्राधान्यस्यैव भावात् । अनयाप्युपमेयोपमादयः संगृहीताः । सामान्यमित्यभेदहेतुकम् । विशेष इति भेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम् । ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्कयाह — उपमैवेत्यादि । अनेकेऽलंकाराः साधर्म्याश्रयाः तत्रैवास्याजीव (बीज) त्वात् । उक्तमिति । 'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥' इत्यादिना । अतश्च किमस्माकं तदाविष्करणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किंचि - दिति सूचितम् । तत्रापीति । चिरंतनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधारणधर्मस्येति । धर्मः पराश्रितः तस्य च तदतगामित्वात्साधारणत्वम् । तदेव चोपमाद्युत्थाने निमित्तम् । स च 'चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाष्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति । न चैतद्विरुध्यते । धर्मिधर्मभावस्याश्रयाश्रयिभावेन भावात् । अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् । जात्याद्यात्मनो धर्मitsपि कदाचिदन्याश्रितत्वे धर्मत्वात् । एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किंचिद्वाच्यम् । चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्तत्वात् । 'सदयं बुभुजे महाभुजः सहसो - द्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥' इत्यादावुपमानादौ क्रियारूपत्वादेयोजयितुं शक्यत्वात्तस्या एव च समग्रविषयावगाहनसहिष्णुत्वात् । ननु जातेः साधारणधर्मत्वे तज्ञातीयत्वात्तत्त्वं न स्यानं तत्सदृश्यत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत्, न । बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् । तत्र ह्यसकृन्निर्देशादयोर्हारनिर्झरादिकयोर्जात्योः शैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् । एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः । तत्र धर्मिणो जात्यादिरूपता यथा - 'घनोद्यानच्छायामिव मरुपथाद्दावदहनात्तुषाराम्भोवापीमिव विषविपाकादिव सुधाम् । प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विरहालभेय त्वद्भक्तिं निरुपमरसां शंकर कदा ॥' अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् । छायायास्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयम् । उपमेयस्य पुनरेतत्स्वयमेवाभ्यम् । धर्माणां तु यथा--' - ' वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्र १. 'लुप्ताद्वयभेदात् ' क. २. 'अत्रासाधारण' ख. १. 'धर्मत्वेऽपि' ख. २. 'न सदृशत्वं' क. ३. 'चैत्य' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy