________________
. २५
अलंकारसर्वस्वम् । तवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोऽयम् । आदिनहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा
'भासते प्रतिभासार रसाभासाहताविभा।
भावितात्माशुभावादे देवाभा बत ते सभा ॥' एषोऽष्टदलपद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् । विदिग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव ।
उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यले उपमा ॥
अर्थालंकारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् । साधर्म्य त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहु:--'यत्र किं
लिप्यक्षराणां मषीविन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं शब्दालंकार इति तात्पर्यार्थः। आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति-भासतेत्यादि । खड्गबन्धः पुनर्यथा-'स पात्रीभविता मोक्षक्षणलक्ष्म्या भवारसः । समस्तजनतायाससमुद्राभिन्नताभिदः ॥' श्लिष्टमेवेति । अष्टदिकमपि निर्गमप्रवेशयोः । उपमानेत्यादि । अर्थति । शब्दालंकारनिर्णयानन्तरमवसरप्राप्तमित्यर्थः । ननूपमानोपमेययोख साधर्म्य संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्कयाह-उपमानेत्यादि । तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् । यथा-'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनपुरा इव ॥' अत्र वणनादेधर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमात्तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादेदुष्टत्वम् तथाप्युपमानवाक्यस्य साकाङ्कत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव । नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् । केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वम् । तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम् । उपमेवस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम् । यथा-'गौरः सुपीवराभोगो रण्डाया मुण्डितो भगः । मेरोरर्कयोल्लीढशष्पहेमतटायते ॥ अत्र तन्वङ्गया रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् । भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थिति दर्शयति–साधर्म्य इत्यादिना । एतैरेव च त्रिभिः प्रकारैः साधर्म्याश्रयः
१. 'धर्मस्योपमानैक्यता' क.