SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम्। इति । तथा-'स पीतवासाः प्रगृहीतशाङ्गों मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवानिशायां संसृज्यमानः शशिनेव मेघः ॥' इत्यत्र मौजीतडितोः शङ्खशशिनोश्च वस्तुतो भेदेऽप्यभेदविवक्षामेवाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम् । अत एवात्र पूर्व ग्रन्थकृता वस्तुप्रतिवस्तुभाववस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावदृष्टान्तवच्चेति तदुक्तमेव दृष्टान्तद्वयं दत्तम् । एवं चात्राभेदविवक्षैव जीवितम् । एषा च लक्ष्ये सुप्रचुरैव। यथा-'विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥' अत्र विद्युद्वनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम् । अत एव तैस्तैविशेषैरित्युक्तम् । तेषां सकृनिर्देशाभावान्नानुगामिता । एकार्थत्वाभावान शुद्धसामान्यरूपत्वमिति पारिशेष्याबम्बप्रतिबिम्बभाव एव। एतेषां चाभेदेनैव प्रतीतेः साधारणत्वम् । एवं हारादेरपि ज्ञेयम् । अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता। न चैतावतैवैषामुपमानोपमेयत्वं वाच्यम् । तथात्वाविवक्षणात् । सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् । एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् । क्वचिनिमित्तान्तरेणाप्यभेदप्रतीतिर्भवति । यथा-'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽङ्गष्ठ इवाहिना ॥' अत्रोत्तरार्धे दष्टदुष्टयोर्दोषकारित्वादिना एककार्यकारित्वं भेदकारणमित्यलं बहुना । इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भवति । क्रमेण यथा—'सदयं बुभुजे महाभुजः' इत्यादि । अत्र वधूमेदिन्योरचिरोपनतत्वात्प्रकृतत्वेन सदयापभोगे समुच्चितत्वम् । अप्रकृता यथा--'स्वरेण तस्याममृतसुतेव प्रजल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितत्रीरिव ताब्यमाना ॥' अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वम् । इयमेकदेशविवर्तिन्यपि । यथा-'कमलदलैरधरैरिव दशनैरिव केसरैविराजन्ते । अलिवलयैरलकै. रिव कमलैर्वदनैरिव नलिन्यः ॥' अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेशविवर्तित्वम् । इयं च सादृश्यदायार्थ कविप्रतिभाकल्पिते साधर्म्य कल्पिता भवति । तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः । यदुक्तम्-'उपमेयस्य वैशिष्टयमुपमानस्य वा क्वचित्' इति । वैधर्मेणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः । अस्योपमायामेव संभवाद्दाळप्रतिपादनाप्रतीतेश्च । क्रमेण यथा"तं णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स । छप्पअछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विही ॥' अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम्। 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ॥' अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् । न चास्याः पृथग्लक्षणं वाच्यम् , १. 'एव चात्र' ख. २. 'साधारणधर्मत्वमुक्तम्' क. ३. 'समुचिता' ख. ४. 'क्रमेण' ख-पुस्तके नास्ति. ५. 'अप्रकृता यथा' ख-पुस्तके नास्ति. ६. 'तं नमत नाभिनलिनं हरेर्गगनाङ्गनाभिरामस्य । षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः ॥ इति च्छाया.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy