________________
अलंकारसर्वस्वम् ।
१९७
न चेदमनुमानम् । समन्याय्यस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानात् । अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेने - हाभिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्प्राकरणिकस्यार्थापतनं द्वितीयः प्रकारः ।
आद्यो यथा
-
'पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः || अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति । द्वितीयो यथा
"धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंज्ञकेषु गणना केव वराकेषु काकेषु ॥ '
अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षिपति ।
वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते -
'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्को भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी ॥' अत्र विधौ वक्रे इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्प्राकरणिकार्थापतनम् ।
कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः । नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्कयाह—न चेदमित्यादि । संबन्धरूपत्वाभावादिति । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव दण्डभक्षणेऽपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः । इहेति । वाक्यन्यायमूलालंकारप्रस्तावे । द्विविधेत्यनेनापततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् । आपततः पुनरर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम् । तत्रोपादाने ग्रन्थकृतैवोदाहृतम् । अनुपादाने यथा - ' श्रीशारदापादरजः पवित्रैः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः । यत्रोल्लसन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः ॥' तत्र गर्भरूपेभ्योऽन्येषां का