________________
काव्यमालौं ।
दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः ।
1
दण्डापूपयोर्भावो दण्डापूपिका । ' दण्डमनोज्ञादिभ्यश्च' इति वुञ् । पृषोदरादित्वाच्च वृद्ध्यभावः । यथा – अहमहमित्यादाविति केचित् । अन्ये तु दण्डपूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थी यष्टन्नित्याहुः । अपरे दण्डापूपाविव दण्डापूपिकेति ईवे प्रकृताविति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तैत्सहभाव्यपूपभक्षणमर्थात्सिद्धम् । एवं न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणादर्थान्तरमापतति सार्थापत्तिः ।
I
१९६
दण्डापूपिकयेत्यादि । शब्दयोजनां तावदाह - दण्डेत्यादि । द्वन्द्वसंज्ञकत्वादस्यानेन वुञ् । शैष्योपाध्यायिकेतिवत् । ननु चास्य ञ्णिति चेति ञित्वादृद्धिः किं न भवतीत्याशङ्कयाह — पृषोदरेत्यादि । यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभाजां शब्दानां व्याकरणशास्त्रेण लोपागमवर्णविकारादि यदविहितं तद्भवति । लक्ष्यमूलत्वाद्व्याकरणस्य । तेनात्राविहितोऽपि वृद्ध्यभावोऽनेन सिद्धः । इतिशब्दो हेतौ । 'अत इनिठनौ' इति ठन् । एतच्च पक्षत्रयं सामान्येनैवाभिदधता ग्रन्थकृता स्वयमेवोपन्नः पक्ष आश्रयणीय इति सूचि - तम् । तेनात्राद्य एव पक्ष आश्रयणीयः । पक्षान्तरयोरनुपपत्तेः । तथा चात्र 'एकाक्षरात्कृत जातेः सप्तम्या च न तौ स्मृतौ' इत्याद्युक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति । अथापि विषय नियमार्थस्येति करणस्यात्रापि संबन्धादिहापि भवतीति चेत् । न । एतद्धि नियतोदाहरणविषयम् । अन्यथा हि निषेधकस्याकरणप्रसङ्ग एव स्यात् । अहमहमिकाशब्दस्य पुनरेतदत्यन्तमेवायुक्तम् । अदन्तात्प्रातिपदिकादनो विहितत्वात् । कनोऽप्यत्र न प्राप्तिः । तस्य प्रकृतौ गम्यमानायामिवार्थे वर्तमानात्प्रातिपदिकादुक्तत्वात् । अदन्तात्प्रातिपदिकादुक्तत्वात्प्रकृत्यभावाच्च कन्न भवति । अन्यथा हि गौरिव गवय इत्यत्रापि कनः प्रसङ्गः । तदित्थमाद्य एव पक्षो ज्यायान् । नन्वत्र किमर्थसिद्ध्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशङ्कयाह — अत्रेत्यादि । एतदेव प्रकृते योजयति - ततश्चेत्यादिना । सामान्यन्यायत्वलक्षणादिति । येनैव न्यायेनै
1
१. 'दण्डापूपिकायाम्' क; 'दण्डापूपिकायार्थापतनमर्थापत्तिः ' ख. २. 'एवमहो शक्तोSहं शक्तोऽस्यामिति' क. ३. 'मत्वर्थे' ख. ४. 'इव प्रकृताविति' ख. ५. ' तत्सहभाव्यपूपा - भक्षणं' ख.
१. 'जात' ख. २. 'सप्तम्यांशयुतौ स्मृतौ ' ख.