SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अलंकौरसर्वस्वम् । १५५ पसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसंख्ययो:क्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।। तथा चारुत्वं भवतीति प्रयोजनम् । अत्यन्तेति । पूर्वोदाहरणेभ्यः । ननु नियमपरिसंख्य भिन्नलक्षणे प्रसिद्ध इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्कयाह-अत्रेत्यादि । वाक्यविदो मीमांसकाः । यदाहुः-'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्या निगद्यते ॥' इति । अत्रायमर्थः । इह कस्यचिदर्थस्य नियमेनाज्ञातस्य विधिः क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्यवस्यति तदा नियमविधिः । पुनरज्ञातज्ञापनमात्रपर्यवसित एव भवति । तेन नियमे 'व्रीहीनवहन्ति' इत्यादाववघातमात्रपर्यवसायित्वमेव । दलनादेरपि निषेध्यत्वेन पर्यवसानात् । नापि निषेधमात्र एव तात्पर्यम् । अवघाताभावे विध्यनिष्पत्तेः । सर्वप्रकारप्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्तरनिषेधमात्रार्थमेव यत्र पर्यवस्यति सा परिसंख्या । तेन ‘पञ्च पश्चनखा भक्ष्याः' इत्यादावन्यपश्चनखभक्षणनिषेधमात्रतात्पर्यमेव । न पुनरेतत्पश्चनखभक्षणकर्तव्यतापि । तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात् । नादरणीयमिति । अनेनैव लक्षणेनोभयोः संग्रहात् । तथा हि नियमे ‘समे देशे यजेत' इत्यादौ यागस्य समविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम् । परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम् । नन्वत्र पञ्चपञ्चनखान्तरनिषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्ये. तल्लक्षणमिति चेत् । सत्यम् । अस्ति तावदामुखे पञ्चपञ्चनखविषये भक्षणे विधिः । यदास्यार्थान्तरनिषेधपर्यवसायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम् । तच्च नियमपरिसंख्ययोः समानम् । अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवेत्यनयोर्महान्भेद इति चेत् । न । अस्ति तावद्विधेरर्थान्तरे निषेधपर्यवसायित्वं समानं यनिबन्धनमनयोरलंकारत्वम् । यत्तु नियमे विधावपि तात्पर्य न तु परिसंख्यायाम् । तदनौपयिकत्वादिहानादरणीयम् । न हीह पश्चानां पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामनयोरलंकारभेदः स्यात् । तथात्वे च सर्वालंकारभेदानां भेदहे. त्वतिशयादिसंभवाद्भिन्नलक्षणप्रसङ्गेऽलंकारानन्त्यं स्यात् । अतश्चैतद्भेदत्वमेव नियमस्य वाच्यम् । तदाह-अत एवेत्यादि । स्वीक्रियत इति । भेदत्वेनेत्यर्थः । सा च यथा-'किमासेव्यं पुंसाम्' इत्यादौ । धुसरित्तटेश्वरयोः सेवाया न युगपत्संभावनमिति निषेधपर्यवसायी धुसरित्तट एवैकत्र सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम् । १. 'भेदहेत्वतिशयांशसंभवात्' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy