SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५८ काव्यमाला। तुल्यबलविरोधो विकल्पः। विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव यौगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाचात्र चारुत्वम् । यथा'नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लिष्टत्वम् । संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे । प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति तयोर्युगपत्प्रवृत्तिं प्राप्नुतश्चात्र युगपत्प्रकारान्तरस्यानाशयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । _ नमनकृतं च तयोः सादृश्यमित्यलंकारता। एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छेषावलम्बेनाप्ययं दृश्यते । यथा वार्तेत्यापतदर्थान्तरमनुपात्तम् । श्लेषेणेति । श्लेषमूलयातिशयोक्त्येत्यर्थः । तुल्येत्यादि । एतदेव व्याचष्टे-विरुद्धयोरित्यादिना । तुल्यबलत्वादेवैकस्यापि बाधाभावान्नैकतरग्रहणम् । तच्च द्वयोरपि युगपत्प्राप्तिः । न च विरुद्धयोरेतयुज्यते इत्यत्रै. कस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः । अत एव नियतोभयपक्षावलम्बी विकल्पः । ननु च 'यवैत्रीहिभिर्वा यजेत' इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशङ्कयाह-औपम्येत्यादि । औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम् । एवं च यत्रैवौपम्यगर्भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा-निन्दन्तु नीतिनिपुणा अथ वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् । अचैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥' अत्रौपम्यगर्भवाभावाद्विकल्पमात्रत्वम् । विकल्पवृत्तं चात्र दर्शयति-अत्रेत्यादिना । क्रमेणेति । शिरोनमने संधिर्धनुनमने विग्रहश्चेति । स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम् । द्वौ चेमाविति । संधिविग्रहौ । अनयोविरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयोविरुद्धत्वम् । तयोरिति । शिरोधनुनमनयोः । प्रकारान्तरस्योति । यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत् । ततश्चेति । विरुद्धयोर्युगपत्प्रवृत्त्यसंभवान्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम् । अत एव चैतदभाववादिनामन्यायवादित्वमपि सूचितम् । अत्रौपम्यकृतमेवालंकारत्वमित्याह-नमनेत्यादि । तेनात्र नमनाख्यस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः । वस्तुप्रतिवस्तुभावस्तु यथा-'स्रष्टुं विधातुरुचितं मुखमेव चञ्चद्धकं नतभ्रु तव कान्तिविलोकितेषु । एणाङ्कबिम्बमथ वा विवलत्कलङ्कमेकं न यद्विहित एव जगत्प्रकाशः ॥' अत्र चञ्चद्विवलत्वयोः शुद्धसामान्यरूपत्वं भ्रूकलङ्कयोबिम्बप्रतिबिम्बभावः।
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy