________________
१२८
काव्यमाला। सा चैवामि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' इत्यत्र विभावनाविशेषोत्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना । तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवलमस्पष्टत्वम् । साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः ।
या तु 'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' इति विशेषो. क्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ्ग वाच्या । ___ अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्तावेनेहोच्यते
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। इह नियतपूर्वकालभाविकारणं नियतपश्चात्कालभावि कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालवि
रूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति । कार्यकारणयोः साक्षानिषेध्यत्वेनाप्रतीतेः । ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशङ्कयाहसाधकेत्यादि । ननु 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा किं नोच्यत इत्याशङ्कयाह-या त्वित्यादि । एवमनयैव दृशा ए. कगुणहान्युपचयादिकल्पनायां साम्यदाय विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्दर्शने रूपकभेद एवेति न पृथग्वाच्यः । प्रस्तावेनानुगुण्येन । अत एवेयन्तः कार्यकारणभावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपञ्चमात्रं दर्शयितुं पुनरिहास्या वचनम् । एतच्च ग्रन्थकृतैवोक्तम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारण. ताश्रयालंकारप्रस्तावे प्रपश्चार्थ लक्षयिष्यत इत्युच्यत इति न पुननिर्णीयते । पूर्वत्रैवास्य निर्णीतत्वात् । तामेवाह-कार्यकारणयोरित्यादि। उभयत्रापि नियतशब्द एतदव्य
१. 'यस्तु' ख. १. पुनरिहास्य' ख.