________________
अलंकारसर्वस्वम् ।
१२७ ज्यमाना विशेषोक्तिः । सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचिन्त्यत्वेन द्वैविध्यात् । क्रमेण यथा
'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववारवीर्याय तस्मै कुसुमधन्वने ॥' 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥'
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । __ हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥' अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः शक्तिस्वरूपेणाविरुद्धेन धर्मेणोपनिबद्धा । अवार्यवीर्यत्वं चात्रोक्तनिमित्तम् । तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र. क्वचित्कार्यविरोधोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते । तथा च सति, 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । तद्धेतुकमेवास्या भेदनिर्देशमाह-सा चेत्यादि । अचिन्त्येत्युत्तानाशयैः । वस्तुतस्तु संभवत्येव । अन्यथा ह्यस्या विरोधो दुष्परिहार्यः स्यात् । अविकल इति । समग्रे विरुद्धधर्मत्वं शक्त्यशक्त्याविरोधात् । अस्याश्च कार्यानुत्पत्तेविच्छित्यन्तरेण बन्धं दर्शयितुमाह-कार्येत्यादि । यथा कर्पूर इवेत्यादौ । एवमिति । यथैवात्र कार्यानुत्पत्तिविरुद्धमुखेनोपनिबध्यत इत्यर्थः । तथा च सतीति । द्वयोरप्यनयोविरुद्धमुखेन कार्यकारणभावोपनिबन्धे सतीत्यर्थः । उत्कण्ठायाः कारणं कौमारहरवराद्यसंनिधानम् । तस्य विरुद्धं तत्संनिधानम् । तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना । तथा कौमारहरवरादिसंनिधानरूपस्य कारणस्य कार्यमनुत्कण्ठा तस्याश्च विरुद्धोत्कण्ठा । तेन सत्यपि कौमारहरवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठा