SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२६ काव्यमाला। 'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ॥' अत्र सहजत्वं निमित्तं गम्यमानम् । असंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमिति च । अत्र विवदन्ते-इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वान्त(?)मेतत् । एकगुणहानौ विशेषोक्तिरित्यन्ये । रूपकमेवाधिरोपितवैशिष्टयमिति त्वपरे । आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः । विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्ति लक्षयतिकारणसामग्र्ये कार्यानुत्पत्तिविशेषोक्तिः। इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । अ. न्यथा समग्रत्वस्यैवाभावप्रसङ्गात् । यत्तु सत्यपि सामग्र्ये न जनयन्ति कार्य सा कंचिद्विशेषमभिव्यक् प्रयु एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमित्यादि । केचिदिति वि. वदन्त इति संबन्धः । अकारणत्वादिति । संभरणादीह मण्डनादेः स्वरूपम् । यद्येवं तमुत्रान्यः कोऽलंकार इत्याशङ्कयाह-एकेत्यादि । अन्य इति वामनीयाः । अपर इत्यौद्भटाः । तृतीयस्तु पक्षो न ग्राह्यः । लेखकपरिकल्पितत्वात् । तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्षणम् । आरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षितत्वात् । संभवोपयोगयोश्च नैकत्वम् । भिन्नत्वात् । ग्रन्थकृतापि साहित्यमीमांसायामेतच्छोकविवृतौ पक्षद्वयमेवोक्तम् । लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः । तथा चात्रैवासंभृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः । एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः । तद्विपर्ययेति । कारणसामग्र्ये कार्यानुत्पादात् । तामेवाह-कारणेत्यादि । समग्रा. णीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः । अत एवाव्यभिचारायाह-नियमेनेति । अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति । एवं नैकं किंचन जनक सामग्री वै जनिति नीत्या समग्राणां कारणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषो. क्तिर्भवतीत्याह-यत्त्वित्यादि । अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः । १. 'संबन्धादिमण्डनादेः' ख. २. 'नारोप्यमाणस्य' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy