________________
अलंकार सर्वस्वम् ।
१२५
मानत्वमुन्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा - 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥' अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यवसायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उत्थानम्, अपि तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद्विधैव । तत्रोक्तनिमित्तोदाहृता । अनुक्तनिमित्ता यथा
नन्यायोऽस्माभिः पाठो लक्षितः । येनेति । एकस्यैव बाध्यत्वेन प्रतीतेः । ननु च 'क्रियायाः प्रतिषेधेऽपि यत्फलस्य विभावनम् । ज्ञेया विभावना -' इत्यादिनोद्भटादिभिरेतलक्षणे क्रियाग्रहणं कृतमिति कथमिह तदुल्लङ्घनेन कारणग्रहणं कृतमित्याशङ्कयाह — इहे - त्यादि । सर्वैरिति बौद्धादिभिः । अत इति । वैयाकरणैरेव ' क्रियाफलस्य कार्यस्याभ्युपगमात् । सामान्येनेति । सर्ववादिसाधारणतयेत्यर्थः । सर्ववादिसाधारणोऽयं ग्रन्थः । द्वितीय इति । अन्यपादयोर्न विभावनेत्यर्थः । यौवनहेतुकत्वेनेति । समाधानायाप्रसिद्धं कारणमाश्रित्येत्यर्थः । अन्यथा हि विरोधपरिहारो न स्यात् । ननु चासवजनितोऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं कारणाभावे कार्यस्योत्पत्तिरित्याशङ्कयाह — मदस्येत्यादि । द्वैविध्य इति क्षैष्यदर्परूपे । सेत्यतिशयोक्तिः । अव्यभिचारिणीति । अतिशयोक्तिं विनास्या अनुत्थानात् । अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् । तदेवाह — तदनुप्राणितत्वेनेति । यदुक्तमन्यत्रापि — 'आश्लिष्टातिशयोक्तिश्च सर्वत्रैव विभावना' इति । 'निरुपादानसंभारमभि• त्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥' इत्यत्र तु जगत उपादानादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात् । एवम्—'ण अ रूवं ण अ ऋद्धी णावि कुलं ण अ गुणाण विष्णाणम् । एमे अ तह विकस्स विको वि अणो वल्लहो होइ ||' इत्यादावपि ज्ञेयम् । अतश्च कचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् । विशेषोक्तिवदिति । विशेषोक्तौ प्राज्यैर्यथोक्तमित्यर्थः । अत्र चाद्य उदाहरणे द्वितीयपाद
१. ' तदोदाहरणम्' ख. २. 'उत्थापनं' क.
१. 'विभावना' क. २. ' इति भावः' ख. ३. 'ण अ' क.