________________
१२४
कारणाभावे कार्यस्योत्पत्तिर्विभावना ।
इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदि तु कयाचिद्भङ्गया तथाभाव उपनिबध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिर्विशिष्टकारणाभावोपनिबन्धः । अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चोपैंक्रान्तत्वाद्बलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकाराद्भेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्य -
काव्यमाला |
तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति- इहेत्यादिना । यदुक्तम् — 'यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया । तदेव कारणं तस्य नान्यत्कारणमुच्यते ॥' इति । अन्यथेति । यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः । ननु यद्येवं तत्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवतीत्याशङ्कयाह-यदि त्वित्यादि । तथाभाव इति कारणाभावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम् । सेति । यया भङ्गया कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम् । विरोधपरिहार इति । अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् । ननु यद्येवं तत्कथमयं विरोध एव न भवतीत्याशङ्कयाह - कारणेत्यादि । तेनेति का येण । यदुक्तम् —' कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥ अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः । इति । एतदेव प्रसङ्गाद्विशेषोक्तेरप्याह - एवमित्यादि । लेखककल्पितश्चायमपपाठ: । तथा हि - ' हरतापि तनुं यस्य' इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामग्र्ये कथं न बलं हृतमिति कार्याभावस्यैव बाध्यत्वेन प्रतीतिः । तस्मात् ' एवं विशेषोक्तौ कारणसंत्तया कार्याभावस्यैव बाध्यमानत्वमुन्नेयम्' इति पाठो ग्राह्यः । एतदेव राजानकतिलकेनाप्युक्तम् - ' कारणसामध्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन' इति । ग्रन्थकृच्च प्रायस्तन्मतानुवर्त्येव । तदुक्तसमा
२. 'भावात् ' ख. ३. ' कारणाभावो भावकार्योपनिबन्धः ' क.
१. 'यदा' क.
४. 'चेह' ख.
१. 'विद्यते क्रिया' ख. २. 'संबन्धः' क ३. 'अत्र दूरे विरोधः स्याद्विभेदेन' क. ४. 'सत्तायाः' ख. ५. 'एतच्च' क.