________________
अलंकारसर्वस्वम् ।
१२३
अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महाप्रभावत्वेन समाधीयते । एवमन्यदपि ज्ञेयम् ।
विविक्तविषयत्वेन चास्य दृष्टेः । श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा - 'संनिहितवालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधिनोर्द्वयोरपि लिष्टत्वे । एकस्य तुष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ । एकविषयत्वे चायमिष्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते ।
एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कारणभावमूलत्वे विभावनां तावदाह
भिरप्येते नोदाहृताः । अन्यदिति । अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसर्तव्या इत्यपि सूचितम् । तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्वोपनिबन्धे विरोधो ज्ञेय इति । तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् । अभावयोस्तु यथा - ' तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेप एव पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ । अत्राभावरूपयोः क्रिययोर्विरोधः । भावाभावयोस्तु यथानङ्गलेखायां राजवर्णने 'विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत् पञ्चतां जनयन्नपि प चालस्य वैमुख्यमपुष्णात्, पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्यधातू, चोलकान्ता अप्यचोलकान्ताः समपादयत्, कुन्तलालसानप्यकुन्तलालसांच निर्ममे शूरसेनानप्यशूरसेनानदर्शयत् । इत्यादि । अस्यापि मतभेदेन श्लेषेण सह व्यवस्थितिं दर्शयितुमाह - विविक्तेत्यादि । 'जडयति च तापं च कुरुते' इत्यत्रास्य विविक्तविषयत्वम् । दर्शनान्तर इति ग्रन्थकृदभिमते । संकरशब्दश्चात्र संकीर्णमात्रे वर्तते । तेनात्र संकरेण संकीर्णत्वेन च श्लेषेमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम् । अलंकारशब्देन चात्र विरोधाभास एवाभिधीयते । तस्यैवेह प्रस्तुतत्वात् । अत्र हि श्लेषो विरोधोत्पत्तौ हेतुत्वं भजते । तेन विना तस्यानुत्थानात् । संकरश्च स्वहेतुबलाल्लब्धसत्ताकयोरलंकारयोर्भवति । तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः । यद्वक्ष्यति - ' न च विरोधोत्पतितौ श्लेषस्य विरोधेन सहाङ्गाङ्गिसंकरः' इति । द्वयोरेकस्येत्यनेन श्लेषमिश्रत्वस्यापि वैचित्र्यं दर्शितम् । अस्य च वक्ष्यमाणाद्विरोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति - एकेत्यादिना । जडीकरणतापकरणयोर्विकारयोर्विकारिगतत्वेनास्यैकविषयत्वम् । विषयभेद इति । कार्यकारणादीनामेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात् । तावदिति प्रथमम् । कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् । आहेति । कारणाभाव इत्यादिना
१. 'एतन्नोदाहृतम्' क. २. 'अनुमन्तव्याः ' ख. ३. 'श्लिष्ट' क.