________________
अलंकारसर्वखम् ।
१२९ पर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति । क्रमेण यथा'पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे
हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥' 'पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
नरि नरि किरति द्राक्सायकान्पुष्पधन्वा - पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥' पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिनकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तेयोस्तुल्यत्वेनोपपन्नं पौर्वापर्य व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः। कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते ।
तयोस्तु भिन्नदेशत्वेऽसंगतिः ।
तयोरिति कार्यकारणयोः । यदेशमेव कारणं तद्देशमेव कार्य दृष्टम् । नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदोचितसंगतिनिवृत्तेरसंगत्याख्योऽलंकारः। विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा- 'प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना
निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः । भिचारदर्शनात् । एतद्रूपापगम इति । कार्यकारणयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात् । प्रौढोक्तिनिर्मित इति । कीर्तिश्रियोर्वस्तुतो निर्गमनप्रवेशासंभवात् । प्रतिपाद्यत इति प्रयोजनत्वात् । तयोरित्यादि । एतदेव व्यतिरेकमुखेनापि दर्शयति-नहीत्यादिना । उचितसंगतिनिवृत्तेरिति । एकदेशयोरपि कार्यकारणयोनिदेशत्वेनोपनिबन्धनात् । अत एव च तयोभिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोधादस्य
१. स्त्रिया' ख. २. 'तयोरुपपन्नं पौर्वापर्येण निर्दिष्टम्' क. ३. 'भावित्वाख्यो' क.