________________
१२०
काव्यमाला |
एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह
अनिष्टविध्याभासश्च ।
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते । तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी । नि1
धागूरणादाक्षेपो यथा -
'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥'
अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन वि
त्यनेन कुत्राप्यस्य व्यभिचारो नास्तीति दर्शितम् । एतदुपसंहरन्नन्यदवतारयति - एवमित्यादिना । समानन्यायत्वादिति । यथात्रेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेाप्यनिष्टस्य विधिनिषेधे इत्येवंरूपात् । एवमेतावन्मात्रमस्याद्यस्य चाक्षेपस्य साजात्यम्, न पुनः सामान्यलक्षर्णसंभव इति भावः । तदेवाह - अनिष्टेत्यादि । एतदेव दृष्टान्तद्वारकं व्याचष्टे - यथेत्यादिना । तदिति विधानम् । प्रस्खलद्रूपत्वादिति स्वार्थबाधात् । पर्यवस्यतीति । स्वात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः । ततश्चेति विधेर्निषेधलक्षणात्। उपकरणीभूत इति । स्वार्थबाधादुपसर्जनीभूत इत्यर्थः । अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम् । अन्यथा हि गजस्नानतुल्यत्वं स्यात् । निषेधागूरणादिति निषेधस्यात्र लक्ष्यमाणत्वात् । सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते । तस्मात्तत्प्रतिपत्तेः । तच्चार्थान्तरागूरणं 'स्वसिद्धये पराक्षेपः' इत्येवं लक्षणाप्रकारस्य पूर्व निरस्तत्वात्स्वात्मसमर्पणेनैव भवतीति यथोक्तमेव युक्तम् । अत एवास्यान्वर्थाभिधत्वम् । पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः । व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव युक्तं नापेक्षत्वम् । 'इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमित्तम् । न तु प्रज्ञातिशयari 'प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ' इति नीत्या नानि विवादो युक्तः । तस्मात् 'आक्षिप्यतेऽत्र विधिना न यतो निषेधः स्वार्थ विधावपि न पर्यनुयोगबुद्धिः । तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव ॥' इत्यादि न वाच्यम् । निराकरणमुखेनेति । प्रवृत्तक्रियत्वात्कान्तस्यानुमोदनद्वारेणेत्यर्थः । प्रैस्खल
१. ‘सद्भाव' इत्यर्थः. २. ‘च प्रतिज्ञाशय' ख. ३. 'अनुकरण' ख. ४. 'प्रलुठद्रूपत्वेनेति' क.