SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । धीयते । न चास्य विधियुक्तः । अनिष्टत्वात् । सोऽयं प्रस्खलद्रूपत्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यञ्जितम् । यथा वा 'नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः __पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः । किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् स्मर्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः। __ आक्षेपे इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रविष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते । तत्रापि विरोधालंकारस्तावलक्ष्यते विरुद्धाभासत्वं विरोधः। द्रूपत्वेनेति स्वार्थबाधात् । आगूरयतीति स्वात्मसमर्पणेन । ननु विधिमुखेनास्य किमागूरणं स्वयं निषेध एव क्रियतामित्याशङ्कयाह-फलमित्यादि। एतच्चेति विधेनिषेधागूरकत्वम् । यथा वेत्यनेनास्य लक्ष्ये प्राचुर्य दर्शितम् । प्रमुख एवेति । न पुनः पर्यवसान इत्यर्थः । एतदेवोपसंहरति-तस्मादित्यादिना । अभिनवत्वेनेति दण्ड्यायपेक्षया । तेन ह्यसौ 'इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते ॥' इत्युक्तेरसंभवतापि लक्षणेन लक्षितः । न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्व्याख्येयम् । 'विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः' इतीदृगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृ. तम् । इदानीं विरोधस्य लक्षणमुपक्रमते-आक्षेप इत्यादिना । एतत्प्रस्तावेनेति । विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः । तत्रापीति । विरोधगर्भालंकारोपक्रमेऽपीत्यर्थः। तावदित्युपक्रमे । तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम् । तदेवाह-विरुद्धेत्यादि । १. 'प्रलुठद्रूप' क. २. 'निर्बन्धं' क. ३. 'शिथिलाः' ख. ४. 'यस्य मुखे एव' ख. ५. 'इष्टस्य' ख. ६. 'प्रतीयते' क. १६
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy