________________
अलंकारसर्वस्वम् ।
११९ यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः।
केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ।।' इति नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावाक्षेपः । निषेधविधौ तस्य भावादित्युक्तत्वात् । चमत्कारोऽप्यत्र निषेधहेतुक. एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्यमानोऽपि भवति । यथा
'गणिकासु विधेयो न विश्वासो वल्लभ त्वया ।
किं किं न कुर्वतेनर्थमिमा धनपरायणाः ॥' अत्र हि गणिकाया उक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रती. यते । न चासौ निषेध एव । गणिकात्वेनावस्थित[त]तयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वत्र्या गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम् । न तु
'स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान् । ___ यो'ऽम्बुकुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः ॥' इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषेधाभासस्य । गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वथेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् । त्यादि । तस्येत्याक्षेपस्य । तद्भावमात्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः । प्रतीयत इति गम्यते । नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव । निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम् । अन्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात् । तस्येहानुपक्रान्तत्वात् । इत्थं च निषेधाभासस्यैव गम्यत्वेऽयं ध्वन्यमानो भवति । न निषेधमात्रस्यैवेति दर्शयितुमाह-न त्वित्यादि। अतश्च ध्वनिकृता यदेतदांक्षेपध्वनावुदाहृतं तदयक्तमेवेति भावः। एवं चास्य यथोपपादितं स्वरूपमुपसंहारभङ्गयापि प्रतिपादयति-सर्वथेत्यादिना । सर्वथे१. योऽम्भःकणैः' ख. २. 'ज्ञातुं' ख. १. 'भावस्यैव' क. २. 'आक्षेपादावुदाहृतं' क.