________________
काव्यमाला।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥' 'सुहअ विलम्बसु थोरं जाव इमं विरहकाअरं हिअअम् । संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥' 'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्वी
___ सा नूनमाः किमथवा हतजल्पितेन ॥' आये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वास्तवत्वादिविशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्तनेनावश्यस्वीकार्यत्वं विशेषः । उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणितिसमिति प्रतिज्ञा तस्य सातिशयात्कोपजनकत्वादिविशेषः । तथा चांशोक्तावशान्तरस्य म्रियत निषेधस्तस्यैव विशेष इत्युक्तं निर्वाहितम् । 'दूरपवासे सँमुहो सि सुहअ आलिङ्गणं खणं कुरुसु । अहवा अला हि इमिणा गमणम्मि विलम्बआरेण ॥' इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधौ तात्पर्याभावान्न निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम् । यतोऽत्र विलम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिरनुपपद्यमानत्वादप्रस्थानलक्षणं निषेधं लक्षयति । अत्र च गंमनस्यावश्यपरिहार्यत्वादिविशेषः प्रयो. जनम् । क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षितवाक्यार्थविप्रलोप एव स्यात् । अतश्चोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधोऽन्यत्र विशेषश्चेति न वाच्यम् । प्रसादस्पेति वस्तुनो न यामिति तत्कथनस्यैव निषेधः । सामान्यद्वारेणेति । भणिष्यामीति भणनसामान्यमाश्रित्येत्यर्थः । तच्च तत्तदपराधोदीरणपरमेवेति तस्य विशेषागूरकत्वम् । इष्टस्येति काकाक्षिन्यायेन योज्यम् । अंशोक्ताविति सर्व दुरन्तमित्यादिना । अंशान्तरस्येति म्रियते इत्यादेः । किमथवा इतजल्पितेनेति
१. 'सुभग विलम्बस्व स्तोकं यावदिदं विरहकान्तरं हृदयम् । संस्थापयित्वा भणिष्यामि अथवा व्रज (?) किं भणामः ॥' इति छाया. २. 'वास्तवाभिन्नादिविशेषतया भण्यमानस्य' ख. २. विधितात्पर्या' क.