SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अलंकार सर्वस्वम् । ११५ त्विष्टस्य निषेधः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य विशेषः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे कचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते । तच्च सामान्यप्रतिज्ञायां केचिद्विशेषनिष्ठत्वेन निषिध्यते क्वचित्पुनरंशोक्ता वंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम् । क्रमेण यथा - 1 'बालअ णाहं दूई तीअ पिओसि त्तिण मह वावारो । सा मरइ तुझ अयसो एअं धम्मक्खरं भणिमो ॥' 'प्रसीदेति ब्रूयामिदमसति कोपेन घट करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः । परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोर्भिन्नविषयत्वमुक्तम् । सत्यम् । यद्यप्येवं तथाप्येतन्न शब्दार्थम् । अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्दमेवैतदाक्षेपाङ्ग नार्थवशायातम् । तथात्वे हि रूपकादीनामप्युपमात्वं स्यात् । तेषामप्यार्थस्य सादृश्यस्या - भावात् । एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्चमुक्तमिति न तथास्माभिराविकृतम् । तेनेति । निषेधविशेषयोरेव भिन्नविषयत्वादोक्षेपशब्दस्यार्थे भेदात् । यस्त्व विशेषः स किं वाच्यः किमुत गम्य इत्याशङ्कयाह - विशेषस्येत्यादि । कथनमेवेति । न पुनः साक्षाद्वस्तु तदिति कथनम् । सामान्यप्रतिज्ञयेति । सामान्यमेवाश्रित्येत्यर्थः । विशेषनिष्ठत्वेनेति । सामान्यस्य विशेषाविनाभावित्वात् । निषिध्यत इत्यत्रोत्तरत्र च संबन्धनीयम् । अंशान्तरगतत्वेनेति । सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः । अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते । विशेषस्य हि साक्षादत्र निषेधो न भवति । निषेधानन्तरं तत्प्रतीतेर्भाविनो निषेधासंभवात् । नद्युक्तो निषेधः शब्दासमर्पिते तत्कालमप्रतीयमाने च विषये संभवति । अस्येत्याक्षेपस्य । ननु द्वयोराक्षेपयोश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशङ्कयाह - शब्देत्यादि । प्रकल्पनमिति । न पुनर्वस्तुतः सद्भाव इत्यर्थः । वस्तुनो निषेधमुखेन विशेष इत्यनेन यस्यैव १. ‘ततश्च' ख. २. 'क्वापि क. ३. 'प्रकारप्रकारिकभावपरिकल्पनम्' ख. ४. 'बालक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः ( 3 ) । सा म्रियते तवायश एवं धर्माक्षरं भणामः ॥' इति च्छाया. १. 'सदर्थम् ' क. २. 'नाक्षेपशब्दस्यार्थ भेदात्' क. ३. 'शब्दसमर्पिते तत्कालप्रतीयमाने च ' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy