________________
काव्यमाला |
गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यतेउक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः ।
इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते । स कृतो बाधितस्वरूपत्वान्निषेधायत इति निषेधाभासः संपन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजस्नानर्तुल्यं स्यात् । स चाभासमानोऽपि निषेधस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात् । इत्याक्षेपस्य द्वयी गतिः । तैत्रोक्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः । वक्ष्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः । एवं चार्थभेदादा क्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य निषेधस्तस्यैवाक्षेपः । वक्ष्यमाणविषये मुक्तं तदयुक्तमेवेति भावः । उररीकृत्येत्याश्रित्य । तमेवाह - उक्तवक्ष्यमाणयोरित्यादि । तथाविधस्येति वक्तुमिष्टस्य । अत एव विधानार्हस्येत्युक्तम् । स इति निषेधः । बाधितस्वरूपत्वादिति । प्राकरणिके विधानार्है तस्यासंभवात् । यद्येवं तर्ह्यसावकार्य एवेत्याशङ्कयाह — तस्येत्यादि । अन्यथेति । विशेषप्रतिपत्तिर्यदि न स्यात् । तस्य च विषयं दर्शयति - स चेत्यादिना । उक्तस्येति वस्तुतः कथनरूपस्य । आसूत्रिताभिधलेनेति सामान्यमुखेन शोक्तिमुखेन वा । अन्यथा हि सर्वत्र विवक्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः । कैमर्थक्येति । किमर्थमेतदिति पर्यनुयोगरूप इत्यर्थः । एवमिति । कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात् । वदन्तीति प्राच्याः । यदाह भामहः-'वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधामतः । एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् ॥' इति । तेनास्माकमेतन्न मतमिति भावः । वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वात्किमर्थमेतत्कथ्यत इति कैमर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपशब्दस्यार्थ इति. भेदाभावाद्द्वावाक्षेपाविति न युक्तम् । तत्किमेक एवाक्षेपो भवन्मते युक्त इत्याशङ्कयाह - तत्रेत्यादि । आक्षेप इति विशेषः । कार्यकारणयोरभेदोपचारात् । इष्टस्येति विशेषात्मनः । अन्यस्येति विशेषात् । एवं निषेधविशेषयोर्भेदेनावस्थितेर्नात्र सामान्यलक्षणसंभवोऽस्तीति तात्पर्यम् । ननु सर्वविशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर
११४
१. ' इत्युच्यते' ख. २. 'तुल्यत्वं' क. ३. 'तत्र' क पुस्तके नास्ति. ४. 'भिधत्वेन' क. ५. 'तंत्र' क पुस्तके नास्ति.
१. 'शब्दस्यार्थ इति तस्यार्थभेदाभावात्' क. २. 'ननु सामान्ये सर्वविशेषाणां वि शेषे च सामान्यानामनुप्राणितत्वात् ' ख.