________________
अलंकारसर्वस्वम् ।
'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः । 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि
र्दिकागानां मदजलमषीभाजि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' अत्र धवलताहेतुयशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेपाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवजे समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते। 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् ।
हि सामान्यविशेषादीनां गम्यत्वमुक्तम् । विपरीतलक्षणयेति । सनिमित्तात्र वाच्यवै. परीत्यप्रतीतिरिति भावः । अन्यथा हि सर्वस्मात्सर्वप्रतिपत्तिः स्यात् । लक्षणा च मुख्यार्थबाधपूर्विकैव भवतीत्यभिधीयमानायाः स्तुतेर्बाधितस्वरूपत्वमुक्तम् । अस्याश्च निन्दास्तुत्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाहकिं वृत्तान्तरित्यादि । उन्मूलितति । स्तुतिरेव वाच्यत्वेनोक्तेत्यर्थः । श्लिष्टमिति । अनुदाहरणमेवैतदिति तात्पर्यम् । अतश्चास्य लोचनकारेण यद्वथाजस्तुत्युदाहरणत्व.
१. 'लिप्त' ख. १. 'पूर्वस्मात् ख. २. 'नान्यथेति' ख. ३. 'वाक्यार्थत्वेन' क.
१५