________________
काव्यमाला ।
'स्पष्टास्ता नन्दने शच्याः केशसंभोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥' अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावातिशयप्रतिपादनं च । कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायोक्तस्यायं विषयः ।
गम्यत्वविच्छित्तिप्रस्तावाट्याजस्तुतिमाहस्तुतिनिन्दाभ्यां निन्दास्तुसोर्गम्यत्वे व्याजस्तुतिः।
यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाट्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा
कार्यमुखेनेति । पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः । स्वर्गविजय इति कारणरूपः ।वर्णनी. यमिति । प्रस्तुतमेवेत्यर्थः । आहेति स्तुतिनिन्दाभ्यामित्यादिना । प्रमाणान्तरादिति व. क्तृवाच्यप्रकरणादिपर्यालोचनात्मनः । बाधितस्वरूपेति । आमुख एव । प्रस्खलद्रूपेत्यर्थः । अत एवास्या ध्वनेर्भेदः । स हि विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलादवगम्यते । इह पुनः प्रमाणान्तराद्बाधितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र निन्दादौ स्वं समर्पयति । तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः । एवम् –'अह सजणाण मग्गो सुहअ तए चेअ णवर णिव्बूढो। इहिं अण्णं हिअए अण्णं वाआइ लोअस्स॥' इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलानिन्दायाः प्रतीतिरिति ध्वनिविषयत्वमेव युक्तम् । पूर्ववदिति प्रमाणान्तरात् । एका द्वितीया चेत्यभिदधता द्वे एवात्र व्याजस्तुती न पुनरेकैव द्विविधा व्याजस्तुतिरिति सूचितम् । प्रकारप्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति । असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् । शब्दनिबन्धनं तु सामान्यमाश्रित्य द्वयोरत्राभिधानम् । एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्योः प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम् । यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङ्कयाह-स्तुतीत्यादि । तत्र
-
१. 'परनिन्दादौ' ख.