________________
अलंकारसर्वस्वम् ।
१११ 'अहो हि मे बह्वपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः॥' अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतिप्रयुक्तं धन्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारणतायां वैधर्येणोदाहृतम् । हिंशब्दाभिहितत्वानभिहितत्वादिभेदाः स्वयमेव बोद्धव्याः । चारुत्वातिशयाभावान्नेह प्रदर्शिताः ।
एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्तमुच्यते
गम्यस्यापि भैङ्गयन्तरेणाभिधानं पर्यायोक्तम् ।
यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम् । गम्यस्य सतः कथमभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गैम्यत्वं वाच्यत्वं च संभवति । अतः कार्यमुखद्वारेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात् । अत एवाप्रस्तुतप्रशंसातो भेदः । एतच्च वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदाहरणम्ति-एवमित्यादिना । तदेवाह-गम्यस्यापीत्यादि । ननु कथमेकस्यैवैकस्मिन्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह-गम्यस्यैवेत्यादि । प्रकारान्तरेणेति का. र्यादिद्वारेण । अत इति । एकस्यैवैकस्मिन्काले गम्यत्ववाच्यत्वासंभवात् । कार्यादिद्वारेणेत्यादिशब्दः प्रकारे । अभिधीयमानं हि कार्य तदविनाभावित्वात्स्वसिद्धये कारणमाक्षिपतीति गम्यमपि तद्वाच्यायमानमिति यदेव गम्यते तस्यैव भङ्गयन्तरेणाभिधानम् । अतश्च 'स्वभ्यस्तदुर्नयजयस्तनयस्तदीयः क्ष्मामाररक्ष जयवाहननामधेयः । दुर्वाग्वैरिवरवीरविलासिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः ॥' इत्यादावलंकारप्रकारत्वं न वाच्यम् । बहुधाजयत् इति हि क्रियमाणे 'गतोऽस्तमर्को भातीन्दुः' इत्यादिवदेतदकाव्यमेव स्यात् । न च दोषाभावमात्रमलंकारत्वमिति बहुशः प्रागुक्तं यत्तु स्वप्नावशेषप्रियदर्शनात्मकं कार्यरूपेणार्थेन स्वसिद्ध्यर्थे कारणरूपस्तद्वध आक्षिप्यते तदितरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति नि. बीजैव पर्यायोक्तान्तरवाचोयुक्तिः । अत एवेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात्।
१. 'हिशब्दाभिहितानभिहितादि' क. २. 'पर्यायान्तरेण' ख. ३. 'वाच्यत्वं गम्यत्वं' ख. ४. 'कार्याभिमुखेन' क. ५. 'तथा-' क.
१. 'गम्यस्य' क. २. 'इत्यादावेव तदलंकार' क. ३ 'मात्रत्वे' ख. ४. 'तदितरप्रकारान्तः पातित्वात्पृथग्वक्तुं' क.