________________
११०
काव्यमाला।
'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।। एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥'
'लोकोत्तरं चरितमर्पयति प्रतिष्ठां
पुंसां कुलं नहि निमित्तर्मुदात्ततायाः । वातापितापनमुनेः कलशात्प्रसूति
लीलायितं पुनरमुद्रसमुद्रपानम् ॥ 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कार्य साधम्र्येण समर्थकम् । तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम् । सहसाविधानाभावविरुद्धाविवेककार्य वैधैर्येण समर्थकम् ।
'पृथ्वि स्थिरा भव भुजंगमा धारयैनां ___ त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षा
__देवैः करोति हरकार्मुकमाततज्यम् ॥' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थकत्वेनोक्तम् । वैधर्येण सामान्यविशेषभावो यथाकारः । गुणसंनिपाते दोषनिमजनात्मनः सामान्यस्य नैराकाषेण सिद्धस्येन्दोः किरणेष्विवाङ्ग इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविषदीकरणार्थमुपात्तः । अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थनमिति सूत्रणीयम् । अन्यथा ह्यव्याप्तिः स्यात् । तस्यैवेति सहसाविधानाभावस्य । एतत्कार्यविरुद्धमिति संपद्धरणकार्यविरुद्धम् । विरुद्धं सामान्यरूपतयेत्यनेन वैधर्येण विशेषः सामान्येन समर्थित इत्युक्तम् । सामान्यं तु विशेषेण समर्थ्यते यथा--'गुणानामेव दौरात्म्याश्रुरि धुर्यो नियुज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गडी ॥' अत्रापि समर्थ्यसमर्थकभावसमर्थनादुदाहरणत्वं वाच्यम् । उदाहृतमिति ‘सहसा विदधीत-' इत्यादिना । एतदुपसंहरन्नन्यदवतारय
१. 'उदारतायाः' ख. २. 'वैधये॒णोदाहृतं समर्थकम्' क. ३. 'रामः-आनतज्यम्' ख.
१. 'संपत्करणकार्याविरुद्धम्' ख.