SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १०९ रणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपश्वकर्मुद्दिष्टं तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः । सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथा प्रस्तुतप्रशंसेति निर्णयः । उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह - सामान्यविशेषभावकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः । 1 निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्वं पश्वाद्वा निदिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽर्थान्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति a | था कार्यकारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ भेदौ । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधम्र्म्याभ्यां भेदद्वयेऽष्टौ भेदाः । हिशब्दाभिधानानभिधानाम्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तद्गुणना सहृदयदहृयहारिणी । वैचित्र्यस्याभावात् । तस्माद्भेदाष्टकमेवेहोट्टङ्कितम् । क्रमेण यथा— स्तुतारोपेण । एतदित्यचेतनेन सह प्रश्नोत्तरकरणम् । एतच्च सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोर्विषयो भवति । अन्यथा पुनरस्या एवेति दर्शयितुमाह — तत्रेत्यादि । सर्वथेत्यनेनै तल्लक्षणस्याव्यभिचार उक्तः । उक्तन्यायेनेति । अप्रस्तुतप्रशंसाभेदानामेव वाच्यत्वकथनात् । आहेति सामान्येत्यादिना । समर्थनार्हस्येति । साकाङ्क्षत्वादुपपादनापेक्षत्वात् । उपपादनमित्येवमेव । एतदिति नैराकाङ्क्षयोत्पादनलक्षणम् । काकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङ्गत्वं ग्रन्थकृदेव वक्ष्यतीति सामान्यविशेषभावाश्रयमेव भेदद्वयमाश्रयणीयम् । विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यस्योपपादनापेक्षत्वं तत्रायमेवालंकारः । नहि विशेषात्मकागस्त्यवृत्तान्तोपादानं विना पुंसां कुलवैलक्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्ध्येत । यत्र पुनः स्वतःसिद्धस्यैव प्रतीतिविशदीकरणार्थे तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालं १. 'समुद्दिष्टं' ख २. 'सामान्यविशेषकार्यकारण' ख. ३. 'उपादानं' क. ४. एवं कार्यकारणभावे द्वौ भेदौ । तत्र' क. १. 'उपमानापे' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy