SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'येन लम्बालकः सास्त्रः कराघातारुणस्तनः । , अकारि भग्नवलयो गजासुरवधूजनः ॥' इति । तथा 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ॥' इत्यादौ सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कात्किारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः । यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः । तत्र हि कारणापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोक्तोदाहरणद्वये । अत्र हि गैजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव । एवं राहुवधूवृत्तान्तेऽपि ज्ञेयम् । ततश्च नायमप्रस्तुतप्रशंसाविषयः । यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा---'इन्दुर्लिप्त इवाञ्जनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः । तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनान्द्वादिगते नाञ्जन लासवातायनसेवनेन श्लाघ्यामयोध्या नगरी विधेहि ॥' अत्र स्वयंवराख्ये कार्ये प्रस्तुते कारणस्याभिधानम् । ननु चात्र कार्यात्कारणस्य प्रतीतौ यद्यप्रस्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह-नन्वित्यादि । सुप्रसिद्ध इति सर्वालंकारकाराभिमते । तत्रेति द्वयनिर्धारणे । तदेव वणितमिति कार्यमेवोक्तम् । कारणस्य गम्यमानत्वात् । ततश्चेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् । स्पष्टैवेति । अप्रस्तुतस्यैव कार्यस्य प्रशंसितत्वात् । अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोक्तं प्रस्तुताप्रस्तुतत्वे त्वप्र १. 'अत्र प्रसिद्धे' क. २. 'गजासुरवध' क. १. 'कारणे कार्यस्याभिधानम्' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy