SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १०७ लिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाहादकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम् । यत्र पुनः स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः । ततश्चानया प्रक्रियया 'राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः ___ कुजे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते । इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा चित्रस्थानवलोक्य शून्यवलभाबेकैकमाभाषते ॥' इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽर्थोऽप्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति खात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधोदाहरणानि । वैधर्येण यथास्तुतप्रशंसेति विषयविभागः । अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्यकारणयोः प्रस्तुतत्वेऽपि कार्याकारणप्रतीतिवत्कारणात्कार्यप्रतीतर्वैचित्र्याभावाच्च 'पर्यायवे कार्यहेत्वोर्भेदसामान्ययोस्तथा । अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥' इत्याद्युक्तमयुक्तम् । यद्येवं तदत्र पर्यायोक्ताप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्य प्रस्तुतं कारणं कथमागूस्यतीत्याशङ्कयाह-एवं चेत्यादि । तादृशमेवेति वाच्यम् । स्वोपस्कारकत्वेनेति । स्वसिद्ध्यर्थे परस्याक्षेपात् । समर्पयतीति वाच्योऽर्थः । इत्थं च 'स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् । उपादानं लक्षणं च' इत्युक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्पर्यम् । ततश्चेति । अनयोभिन्नविषयत्वात् । अन्य इति काव्यप्रकाशकारादयः । सर्वथेति । तत्र पर्यायोक्तमप्रस्तुतप्रशंसा वास्त्वित्यभि. प्रायः । इह च सारूप्येण साधम्र्योदाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साधोदाहरणानीत्यनेनातिदेशवाक्येनेति निश्चिनुमः । अयं हि ग्रन्थो ग्रन्थकृतः पश्चात्कैरपि पत्रिकाभिलिखित इति प्रसिद्धिः । तैश्चानवधाना उदाहररणपत्रिका न लिखिता। अतिदेशवाक्यं च पत्रिका१. 'इत्यप्रस्तुतप्रशंसादौं' ख. १. 'अत्र' क. २. 'साधर्येण सारूप्यो' ख. ३. 'कैश्चित् ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy