________________
१०४
काव्यमाला |
अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा ।
इह प्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीति: अतिप्रसङ्गात् । संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते । तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः। त्रिविधश्च संबन्धः - सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतितौ द्वैविध्यम् । कार्यकारणभावेऽप्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधर्म्याभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः । श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छ्रेषाद्विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा'त तत्थि किम्पि वणो कम्पिअजणणित्ति अइगईणीव | अणवरदगमणमीलसकालअवरिअस्स पाहिज्जम् ||'
प्रस्तुतस्य प्रतीतिर्भवतीत्याशङ्कयाह - इहेत्यादि । तदित्यप्रस्तुतवर्णनम् । अतिप्रसङ्गादिति सर्वस्मात्सर्वप्रतिपत्त्यात्मनः । तस्यैवेति त्रिविधस्य संबन्धस्य । सामान्यस्य विशेषाश्रयत्वाद्विशेषस्य च सामान्यनिष्ठत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः । एवं च कार्यस्य कारणपरतन्त्रत्वादन्त्यावस्थस्य कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः । इत्थमेतत्संबन्धद्वयं वास्तवम् । सारूप्यं पुनः प्रातीतिकमेव । प्रतीतावेव सदृशेन वस्त्वन्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धेः । वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्वन्तप्रतीतिर्न स्यात् । अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रतीतौ । तत्रापीति सत्यपि पञ्चप्रकारत्वे । श्लिष्टशब्दप्रयोग इति । विष्टशब्दनिबन्धनाप्यप्रस्तुतप्रशंसा भवतीत्यनुवादाद्विधिः । अत एवास्य बहुप्रकारत्वमुक्तम् । प्रस्तुत इति । प्रहस्तवधवर्णनस्यैव प्रक्रान्तत्वात् । अत्र वाक्यान्तरोपात्ते विशेषात्मनि प्रस्तुते प्रहस्तवधे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते । यथा - 'दुर्ज
१. 'इति' क. २. भवतीति' ख. ३. 'द्वैधम्' क. ४. 'अत्यस्फुटेयं गाथा. ख-पुस्तके तु नास्ति.
१. 'अत्यावश्यकस्य' ख.