SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अलंकार सर्वस्वम् । १०३ नीयार्थनैरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम् । अतश्च प्रकृतेन सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च ‘आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वत्रे कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः । बनासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ॥' इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अपह्नुतेरत्र विद्यमानत्वात् । वस्तुतोऽपवस्य सादृश्यार्थमैत्रप्रवृत्तेर्नायमपहुत्यलंकार इति चेत्, न । उभयथाप्यपहुतिसंभवात् । सादृश्यपर्यवसायिना वापहवेनापह्नवपर्यवसायिना वा सादृश्येन भूतार्थापह्नवस्योभयत्र विद्यमानत्वात् । 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपहुतिः । अपह्नवाय सादृश्यं यत्राप्येषाप्यपह्नुतिः ॥' इति संक्षेपः । आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमिति स्थितम् । प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते— पाद्यापि प्राच्यानुरोधात्पुनरपि तदीयमेव मतं दर्शयितुमाह- इह चेत्यादि । भूतार्थो वास्तव: संक्षेप इति प्रमेयसंचयात् । आद्येत्यादि सादृश्यपर्यवसायापह्नवस्वरूपा । स्वप्रस्ताव इत्यपह्नुतिलक्षणे । उदाहृतेति पूर्णेन्दोरित्यादिना । द्वितीयेति अपह्नुतिपर्यवसायिसादृश्यरूपा । प्रदर्शितेति आकृष्यादावित्यादिना । अत्र च ग्रन्थकृता श्लेषः सर्वालंकारापवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्नवपर्यवसायिसादृश्यरूपोऽपहुतिभेदोsपि तन्मतानुसारमेवोक्तः । यद्वक्ष्यति — व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्युपक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति । अतश्चात्र ग्रन्थकृन्मते वक्ष्यमाणसादृश्या श्लेषमूला व्याजोक्तिः । तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तेः । उक्तेति समनन्तरम् । यत्तु समासोत्त्यनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसाम्यादिना प्रसङ्गागतम् । तामेवाह - अप्रस्तुतादित्यादि । नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि १. 'विश्रमणीयम्’ख. २. 'प्रकृतत्वेन' ख. ३. 'मात्र' ख. ४. 'अप्रस्तुतावगतौ' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy