________________
१०२
काव्यमाला ।
'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥'
इति न्यायभवनबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्वोद्धव्यः । यथा'सद्यः कौशिक दिग्विजृम्भणवशादाकाशराष्ट्रं रसा
1
त्यक्त्वा धूसर कान्तिवल्कलधरो राजास्तशैलं ययौ । तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ||' इति । हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्र संपादितोपद्रववशात्प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति गैमनं सूचितं स्यात् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सूच
-
बद्धार्थत्वं मा प्रसादिति नायिकाशशिनोरौपम्यं कल्पनीयम् । संबन्धान्तरेणेति यत्र यादृशेन विवक्षितेन । तत्रेति शब्दशक्तिमूले ध्वनौ । अत एवेति । औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संबन्धस्योपपादयितुं शक्यत्वात् । उक्त इति काव्यप्रकाशकृता । चन्द्र इति वर्ण्यमान इति शेषः । सूचितमिति शब्दशक्त्या । तामेव विभज्य दर्शयति - तथा चेत्यादिना । अतश्चेति । इत्येव शब्दशक्तेर्भावात् । अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्यस्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्दशक्तिरत्र स्फुटा स्थितेति तन्मूलत्वमेव ग्रन्थकृतास्योक्तम् । शुद्धस्तु शब्दशक्तिमूलो वस्तुध्वनिर्यथा - 'न महानयं न च विभर्ति गुणसमतया प्रधानताम् । स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत् ॥' अत्र केवलयैव शब्दशक्त्या सांख्यपुरुषरूपं वस्त्वभिव्यक्तम् । यत्तु काव्यप्रकाशसंकेते प्रन्थकृता वस्तुध्वनेः शब्दशक्तिमूलत्वं चिन्त्यमुक्तं तदुदाहरणाभिप्रायेणैवोन्नेयम् । तत्र हि 'पन्थिअ ण इत्थ सत्थरं' इत्याद्युदाहरणमुभयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुध्वनेः श्रीमम्मटेनोपात्तम् । इह तु यथासंभवमेव विचारितम् । एवं स्वमतेन श्लेषस्य यथोपपत्ति स्वरूपं प्रति
१. 'भर' ख. २. 'संपादितापद्धतिवशात्' क. ३. 'प्रस्थानं सूचितम् ' ख. १. 'शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्तम्' के.