SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १०१ विरोधसमाधिः । श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्रा वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उतशब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छेषः । अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षेप्यस्यार्थस्यासंबद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात् । न चान्या गतिरस्ति तैदन किं कर्तव्यम् । उच्यते-श्लेषस्योक्तनँयेनाप्रवृत्तेव॑नेरेवायं विषय इति निश्चयः । तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तकोऽयमभिनिवेशस्तत्र । उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण तत्र समीचीनः स्यात् । अत एव न्यथा हि निर्विषयो बाधः स्यात् । अतश्चोत्तरकालं तु विरोधसमाधिरिति भणितेरर्थमजानानेनायमर्थोऽन्वेषणीयः । यदि हि बाधः प्रागप्युत्प्रेक्षायाः स्वाधिकारवशेन स्वरसत एवोल्लसेत्तदुक्तनीत्या उत्प्रेक्षोत्थानमेव न स्यादित्यबाधित एव · विरोध उत्प्रेक्षाया निमित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति । स च समाधिरत्र दिगाद्यर्थाधिगमादवबुध्यत इति विरोधस्य श्लेषोऽङ्गम् । तद्वशादेवास्योत्थानात् । तथा चात्रानयोः संकीर्णत्वमात्रमेव न पुनः संकरालंकारः । स तु यथा-संजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र श्लेषतुल्ययोगितयोरेकवाचकानुप्रवेशेन संकरः । प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतु: श्लेषोऽयमित्याह-श्लेषस्येत्यादि । तेनाद्यः पक्षः स्वाभिप्रायेण ग्रन्थकृतोक्तः । यद्वक्ष्यत्येतच्छोकविचार एव संकरालंकारे । अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकाराविति । तदेवं स्वमताभिप्रायेणास्यालंकारान्तरवदन्यालंकारैः सह बाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दशक्त्युद्भवाद्धनेर्विशेषं प्रतिपादयति—यत्र त्वित्यादिना । असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीयत्वात् । अन्येति श्लेषध्वनिव्यतिरिक्ता । उक्तनये नेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टरित्यनेन । संबन्धार्थमिति संगत्यर्थम् । यथा-'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥' अत्र प्रकृताप्रकृतयोरसं १. 'विरोधि' क. २. 'उपेक्षैव परा' ख. ३. 'तत्र' ख. ४. 'नयेनात्राप्रवृत्तेः' ख. ५. 'संबन्धत्वात्संबन्धेनार्थ ख. १. 'स्वविकार' ख. २. पद्मपक्षे 'सत्-जात-पत्र' इति, दिनपक्षे 'सन-आतपत्र' इति च्छेदः.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy