________________
१००
, काव्यमाला।
अत एव विशुद्ध्यै इत्युत्प्रेक्षा(क्षया) अत्रात एवेति परामृष्टो विरोधालंकारालंकृतोऽर्थो हेतुत्वेनोत्प्रेक्ष्यते । विशुद्ध्यै इति च फलत्वेन । ततश्च हेतुफलयोद्वयोरप्यत्रोत्प्रेक्षा । विरोधालंकारस्य चे विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम् । उत्तरकालं तु
तक्रियायोगपरामर्शः । फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः । ततश्चेति हेतुफलयोईयोरुत्प्रेक्ष्यमाणत्वात् । ननु विरोधालंकारस्य विरोध एव रूपं तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशङ्कयाह-विरोधेत्यादि । यद्वक्ष्यति–'विरोधाभासत्वं विरोधः' इति । अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान प्ररोहो नापि बाधोत्पत्तावपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्व विरोधबोधः पश्चाद्विरोधधीरिति वाक्यस्यावस्थाद्वयम् । ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत्, स्खलद्गतित्वमिति बमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्तिष्विव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभासस्वभावबाध्यविज्ञानसमुत्युसनेन बाधकत्वमुदेति । बाधोदयेऽपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवद्विरुद्धप्रतिभासानिवृत्तेः । केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलद्गतितैवावगम्यते । स्खलद्गतित्वे च प्रतिपत्तव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः स्वपित्तविकाराज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकाद्यथितया प्रवतते । तिमिरदोषं वा जानानस्तैमिरिकोऽपि बहिश्चन्द्रद्वयास्तित्वव्यवहारं विधत्ते । एवं बाधोत्पत्तेरनुपपद्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षणलक्षणव्यवहारनिमित्तभावमुपगन्तुमुत्सहते । यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्यमानत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच्च तयोः कथमेकत्र समावेशो घटते । अतश्चानेनैवाभिप्रायेणाह-अत इत्यादि । विरोधाभासनसमय एवेति । न तु बाधकोदयसमय इत्यर्थः । बाधोदयानन्तरं विरोधस्योत्प्रेक्षाहेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति बाधोदयात्प्रागेवान्यथानुपपत्त्या निश्चीयते। बाधस्य च स्वारसिकत्ववस्तुवृत्तेः पर्यालोचनालभ्यत्वेन द्विविधस्यापि सर्वत्रोत्तरकालमेवोल्लासः संभवति । तस्य च बाध्यनिष्ठत्वाद्वाध्यस्य च पूर्वकालीवित्वात् । अ
१. 'हेतुकत्वेन' क. २. 'एव' ख. ३. 'उत्थानं स्यात्' ख.
१. 'अतश्चेति' क. २. 'न रूपं' ख. ३. 'विरोधालंकाराकृतो' क. ४. 'बाध्योत्पत्ती' ख. ५. 'बोधत्वाच्चात्र विरोधधीः' क. ६. 'बाध्यं' क. ७. 'प्रतिभानिवृत्तेः' क. ८. 'भावितत्वात्' क.