________________
84
अलंकार मणिहारे
यथावा
तावत्कर्म न मे स्तात्तव शौरे यावता स्मृतिर्नश्येत् । तावत्किमर्थमञ्जनमक्षि विनश्येद्धि यावतेत्याहुः ॥ २१३१ ॥
अत्रापि तावत्किमर्थमञ्जनमित्याकारकलौकिकगाधायाः प्रतिबिम्बभूतायाः आहुरित्यनेनानिर्दिष्टप्रवक्तृकप्रवाद पारंपर्य दर्शितमिति द्रष्टव्यम् ॥
यद्यप्येते अष्टौ प्रमाणालंकारा: दीक्षितेभ्यः प्राचीनैर्न कृतविवेकाः । तथाऽप्यनुमानालंकारस्य सर्वैरपि लक्षितत्वात्प्रत्यक्षादिप्रमाणालंकारा अपि लक्षितप्राया एव । न हि प्रत्यक्षादीनामपि प्रमाणतायामनुमानतोऽस्ति विशेषः । न वा विच्छित्तिसदसद्भा वकृतं वैलक्षण्यम् । अतोऽनुमानालंकारकथनं प्राचामितरप्रमाणालंकारोपलक्षणमित्याशयेन दीक्षितैः कुवलयानन्दे सर्वाण्यपि तानि विविच्य प्रदर्शितानीत्यस्माभिरपि तानि प्रदर्शितानि ॥
इत्यलंकारमणिहारे ऐतिह्यसर एकोनविंशत्युत्तशततमः .
-
अथ संसृष्टिसर : ( १२० )
अलंकृतीनां सर्वासां यथासंभवमेळने । लौकिकीनामिवैतासां चारुताऽतिशयेक्षणात् ॥ नरसिंहप्रक्रियया भात्यलंकारता पृथकू । अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥
ननूक्तानाम लंकाराणामनेकेषामेकत्रावस्थाने किं तत्तदलकारतैव ? उताहो नरसिंहन्यायेन समवायकृतमलंकारत्वम् ? इति