________________
संसृष्टिसर: (१२०)
85
चेत् अत्र केचित्-नालंकारान्तरं युक्तमभ्युपगन्तुं, प्रातिस्वि कतत्तदलंकारतातिरेकेण संज्ञान्तरस्य विच्छित्तिविशेषस्य चाभावादित्याहुः । अन्ये तु-नरसिंहन्यायेनालंकारान्तरमेव । न च संज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धः। संसृष्टिसंकरसंज्ञयोलौकिकालंकाराणां कनकमुक्तााप्रवाळहरिनीलमरकतादीनामन्योन्यविलक्षणशोभाधायकानां मेळनकृतशोभातिशयवदिहापि मेळने विच्छित्तिविशेषसद्भावस्य च सहृदयहृदयैकसाक्षिकत्वात् । अतो नरसिंहाकारेण मेळनमलंकारान्तरमेवेति । तदेतन्मतमवलम्ब्योक्तं 'भात्यलंकारता पृथक्' इति ॥ तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम् । संसृज्येरनलंकारास्सा संसृष्टिरितीर्यते ॥
तिलतण्डुलन्यायोन स्फुटावगम्यभेदालंकारमेळने संसृष्टिरित्यर्थः ॥
शब्दालंकारयोरालंकृत्योश्च परस्परम् । उभयोरपि संसृष्टिरिति सा त्रिविधा मता ।। तत्राद्या यथाकलिकलुषशबलितमतिक्षितिपतिसेवातिवाहितायुरहम् । अधुना तव मधुनाशन विधुनानि क्लमभरं चरितमधुना ॥ २१३२ ॥
अत्र शब्दालंकारयोर्वक्ष्यमाणयोरनुप्रासयमकयोः पूर्वोत्तरार्धगतयोरन्योन्यनिरेपक्षयोस्संसृष्टिः॥
द्वितीया यथावृषभूमिभृढतंसेन्दीवरमिन्दीवराप्तजैत्रमुखम् । श्रीवासनामधेयं तजगतां भागधेयमव्यानः ॥