________________
अनुपलब्धिसरः (११७)
81
योक्तया पुष्पवन्तौ' इत्यमरः। ऐताम् अगच्छताम् । अयमदन्त स्तान्तोऽप्यस्ति-'पुष्टिहासौ कुमुदसुहृदः पुष्पवन्तोपरागे' इति, 'विलोचने विभोर्यस्य विख्याते पुष्पवत्तया' इत्युभयधाऽपि प्रयोगदर्शनात् । अत्र सर्वत्र श्लेषोजीवितत्वं तुल्यम् ॥
इत्यलङ्कारमणिहारे अर्थापात्तसरः षोडशोत्तरशततमः.
अथानुपलब्धिसरः (११७) यद्योग्यानुपलब्धेस्स्यादमावस्यावधारणम् । कृतिनोऽनुपलब्धि तां रम्यां विदुरलंकृतिम् ।।
योग्यानुपलब्धिजन्यमभावावधारणमनुपलब्धि मालंकारः । रम्यत्वं तु सर्वालंकारानुगतमेव ।।
यथावा
दोषलवोऽपि यदि स्यात्त्वयि सुदृशां तदुपलब्धिरेव स्यात् । कल्याणगुणैकनिधे कलङ्क उपलभ्यते हि सकलेन्दौ !! २१२६ ॥ ___अत्र भगवतो यदि दोषलवोऽपि स्यात् तदा सुदृशां 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते' इत्युक्तश्रुतिस्मृतिरूपचक्षुष्मतां तदुपलब्धिस्स्यादेवेति तत्सानथया अनुपलब्ध्या दोषगन्धानवकाशनिर्धारणादनुपलब्धि मालंकारः। कल्याणगुणैकनिधे इति संबोधनं दोषात्यन्ताभावाभिप्रायगर्भम् ।. सकलेन्दो संपूर्णे . चन्द्रमसीत्यर्थः । कलङ्क उपलभ्यते । सत्त्वादेव तदुपलब्धिः । यदि न स्यात्तर्हि नोपलभ्येतैवेति व्यतिरकदृष्टान्तः ॥
इत्यलंकारमणिहार अनुपलब्धिसरस्सप्तदशोत्तरशततमः.