________________
70
अलंकारमणिहारे
च्यावित्तैकवर्णकामुकसमाख्यायाः प्रमाणतयोपन्यास इत्यच्यावितवर्ण समाख्योदाहरणेभ्यः पूर्वेभ्यो विच्छित्तिविशेषशालीदम् ॥
यथावा
प्रतिकूल भावभाक्ते नूनं हंसीति भासि सिंहत्वम् । ईदृक्सिहेत्येतत्पदमेव हि मानमत्र पर्याप्तम् ।। २१०८॥
हे सिंह हे नृसिंह ! त्वं प्रतिकूलभावभाक्त्वे त्वद्विषये प्रातिकूल्यकृत्त्वे नूनं हंसीति भासि प्रातिकूल्यभाजं जनं संहरसीति मम प्रतिभासीत्यर्थः । पक्षे हे सिंहेति सिंहशब्दस्यैव संबोधनम् । प्रतिकूलभावभाक्त्वे प्रातिलोम्यप्राप्तौ हंसीति भासि हंसीत्यानुपूर्व्या प्रकाशसे इत्यर्थः । अत्र उक्तार्थे ईदृक् प्रातिलोम्यभाक्त्वे हंसीति निष्पद्यमानं सिंहेत्येतत्पदमेव मानं प्रमाणं पर्यातम् । किमन्यप्रमाणान्वेषणेनेति भावः । अत्र उक्तार्थे उक्तरूपं सिंहेति संबुद्धयन्तसमाख्यापदं प्रमाणतयोपन्यस्तमिति पूर्वस्माद्विच्छित्तिविशेषशालीदम् ॥
इत्यलङ्कारमणिहारे शब्दप्रमाणसरः पञ्चदशोत्तरशततमः
अथार्थापत्तिसरः (११६)
अन्यथानुपपत्त्या यत्किचिदर्थस्य कल्प्यते 1 'अर्थान्तरं तां कथयन्त्यर्थापत्तिं विचक्षणाः ॥ किंचिदर्थान्यधानुपपत्तया अर्थान्तरकल्पनमर्थापत्तिर्नामा
लंकारः ॥