________________
शब्दप्रमाणसर : (११५)
यदि अल्पप्रज्ञैर्दुर्विज्ञानश्चेत् साधु सम्यक् तत्समाख्यैव उमापतिसमाख्यैव विमृश्यतां विमर्शे अयमर्थस्स्फुटी भविष्यत्यल्पज्ञानामपीति भावः । समाख्यापक्षे तु उमापतिः उमापतिशब्दः अन्तः आद्यन्ताक्षरयोर्मध्ये मापं माश्च पश्च अनयोस्समाहारः मापं एवंरूपं वर्णसमुदयं बिभर्ति । अतएव अयं उमापतिशब्दः तदधीनसत्तः मापवर्णयत्तस्वस्थितिः उक्तमापवर्णाभावे उमापतिशब्दसत्ताया दुर्घटत्वादिति भावः । अत्र स्वाववक्षिते उमापतेर्भगवदन्तरात्मकत्वे उमापतिसमाख्यायाः प्रमाणीकरणम् ॥
69
यथावा
सति भवति सर्वभोग्ये कामुक इतरामिषस्य यो भगवन् । अमुकस्स काक एव स्यादेतद्वक्ति तत्समाख्यैव ॥ २१०७॥
< न
हे भगवन् ! सर्वभोग्ये सर्वैस्सर्वप्रकारेण भोग्ये भवति सत्यपि यः इतरामिषस्य भोग्यवस्त्वन्तरस्य 'आमिषं पुंनपुंसकम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपिच' इति मेदिनी। अन्यमांसस्येत्यप्युपस्कार्यम् । कामुकः कामयिता । लोक' इत्यादिकृद्योगलक्षणषष्ठीनिषेधस्य ' कमेरनिषेधः' इति पर्युदस्तत्वात् कामुकशब्दयोगे इतरामिषशब्दस्य षष्ठयेव । सः अमुकः सोऽसौ कामुकः । अदश्शब्द समानार्थकोऽयमव्युत्पन्नोऽ'अमुकगोत्रस्यामुकशर्मणः । ज्ञातस्स्वरेणामुकः ' मुकशब्दः । इत्यादिप्रयोगदर्शनात् । न तु साकच्कोऽदश्शब्दः । तथा सत्यसुक इति स्यात् । काक एव वायस एव स्यात् । आमिषगृध्नुत्वातत्तुल्य एवेति भावः । पक्षे कामुकशब्दो मुकारविघटितः काक एव काकशब्द एव स्यात् । अत्र स्वाववक्षितार्थनिर्धारणाय
।