________________
68
. अलंकारमणिहारे
राद्धः स्वः स्वर्गे राद्धः संसिद्ध इति वा। सर्वैश्वर्यपरिपूर्ण इत्यर्थः ‘रो रि' इति रेफलोपे 'दूलोपे' इति पूर्वस्याणो दीर्घः । शब्दपक्षे तु-आदौ सु इति वर्ण आराद्धं येन सः स्वाराद्धः । मध्ये दुर्वासश्शापलक्ष्मीकटाक्षलाभयोरेन्तराळसमये त्रासितः वैरोचनिप्रभृतिभिः पदभ्रंशनादिना भीषितोऽपि । अन्यत्र मध्ये सु मा इति वर्णद्वयान्तरे त्रासितः त्रा इति वर्णसमुदयः आसितः उपवेशितः यस्य स तथोक्तः। त्रा इति वर्णसमूहेन सितः बद्धः संबद्ध इति वा । अपिरत्र समुच्चये। त्रासितश्चेत्यर्थः। अन्ते पर्यवसाने मानुगृहीतः लक्ष्मीकटाझविषयीकृत इत्यर्थः : अन्यत्र अन्ते चरमभागे मानुगृहीतः मा इति वर्णन घटित इति यावत् । अभूत् । तमिममर्थ अस्य सुत्राम्ण: समाख्यैव आह सुत्रामेति समाख्ययैव वेदितेऽस्मिन्नर्थे पौराणिकोक्तिपर्यन्तानुधावनं नापेक्षितमिति भावः । अत्र उपपादिते स्वाभिमतेऽर्थे समाख्यायाः प्रमाणता ॥
यथावा__ मापमुमापतिरन्तर्बिभर्ति तदधीनसत्त एवायम् । यदि दुर्ग्रहोऽयमों विमृश्यतां साधु तत्समाख्यैव ॥ २१०६ ॥ ___ उमापतिः शिव: मापं श्रीनाथं अन्तर्विभर्ति अन्तरात्मतया दधाति ।
ममान्तरात्मा तव च येचान्ये देहिसंशिताः । विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥ इत्यादिप्रमाणादिति भावः । अत एव अयं उमापतिः तद्धीनसत्त एव तदायत्तस्वरूपस्थितिप्रवृत्तिभेद इत्यर्थः । अयमर्थः अन्तर्यामिब्राह्मणाविसंवादिप्रदर्शितप्रमाणसंप्रतिपन्नोऽर्थः दुर्ग्रहो